110 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः ब्रह्मण आनन्दत्वज्ञानत्वसत्यत्वस्त्रप्रकाशत्वादि खण्डनोक्तरीत्या दुर्वचमिति ब्रह्म तत्वतोऽनानन्दाद्यात्मकं स्यात् । तस्मादिक्षु- क्षीरादिमाधुर्य वदनिर्वाच्यमपि विषयत्वं सदेवेति, अत्रोच्यते- दृश्यत्वादेरनिर्वचनीयत्वं किं सत्वेन, उत स्वरूपेण । नाद्यः, सत्वेनानिर्वचनीयत्वेऽपि तत्तदाभासलक्षणानालिङ्गितत्वमात्रेण हेतुत्वोपपत्तेस्तन्निर्वचनानपेक्षणात् । न द्वितीयः, तात्विका- तात्विकसाधारणेन हक्सम्बन्धित्वादिना रूपेण दृग्विषयत्वस्य 1 निर्वक्तुमशक्यत्वात् । लक्षणोक्तचनुक्तयोर्न सदसद्वैलक्षण्य - रूपानिर्वाच्यत्वहानिलाभकरत्वमिति यदवोचः, तदपि न पूर्वोक्तव्यापकानुपलब्धिसहिताया लक्षणानिरुक्तेरुक्तरूपानिर्वच- नीयत्वप्रयोजकत्वात् । यत्त्वानन्दत्वादिना धर्मेण कीदृगित्या- दिना स्वरूपेण च दुर्निरूपत्वाद्ब्रह्मणोऽप्यनिर्वचनीयत्वप्रसङ्ग इति, तन; आनन्दत्वादिधर्मवत्तया दुर्निरूपत्वेऽपि दुःखप्रत्य- नीकत्वाद्युपलक्षितस्वरूपस्य सत्वेन निर्वक्तुं शक्यत्वात् । न चैवं च्यत्वं सत्यम्य लक्षणादेर्निर्वचनाभावः । खण्डनोक्तरीत्येति ॥ अभीष्टसिद्धावपि खण्डनानामखण्डि राज्ञामिव नैवमाज्ञा । तत्तानि कमान्नु यथावदेव सैद्धान्तिकेऽप्यध्वनि योजयध्वम् ॥ इति || स्वरूपेण-सत्वान्यरूपेण | तन्निर्त्रचनानपेक्षणात्-सत्वेन निर्वचनानपेक्षणात् । व्यापकानुपलब्धीति | सत्यत्वव्यापकाविप्रक- र्षाद्यनुपलव्धिरूपविप्रकर्षादिग्राहकमानेत्यर्थः । मिथ्यात्वसाधकमानेति यावत् । लक्षणानिरुक्तेः – सत्यलक्षणानुक्तेः कीदृगित्यादिना सम- सत्ताकलक्षणात्मकेन । सत्वेन निर्वक्तुं शक्यत्वात् । तत्सदित्यस्यान- न्दत्वसत्यत्वाद्युपलक्षितस्वरूपप्रमापकशब्दस्य प्रयोक्तुं शक्यत्वात् । 1 निर्वक्तुं शक्यत्वात्. - 2 कस्मान-ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३९
दिखावट