परिच्छेदः] प्रत्यक्षबाधोद्धारः शुक्तथादेस्सन्वसिद्धिः । नन्वेवमपि सर्वदेशीयत्रैकालिकनिषेध- प्रतियोगित्वमसत्वं तुच्छानिर्वचनीयसाधारणम्, तदभावस्स- त्त्वम् । तच्च ब्रह्मणीव जगत्यपीति ब्रूमः । न च संयोगे अव्याप्तिः, तस्याव्याप्यवृत्तित्वानभ्युपगमात् । तदभ्युपगमे च व्याप्यवृत्ति- त्वेनाभावो विशेषणीयः । नापि वियत्यव्याप्तिः; तदत्यन्ता- भावस्य केवलान्वयित्वाकीकारेण लक्षणस्य विद्यमानत्वादेव । न हि कस्मिंश्चिद्देशे काले वा तस्याभावः, नित्यविभुत्व- भङ्गप्रसङ्गात् । आकाशात्यन्ताभावस्य केवलान्वयित्वाभ्युपगमे च वृत्तिमत्प्रतियोगिकत्वेनाभावो विशेषणीय इति चेन्न; चक्षु- राद्ययोग्यानेकपदार्थघटितत्वेन एतादृशसत्त्वस्य ग्रहणे चक्षुरादेर- स्यापि सद्विविक्तत्वादिरूपमिथ्यात्वाद्ब्रह्माणि श्रौतसत्यत्वव्यवहारप्रयोजकं यत्तद्विरहस्यैव मां प्रति प्रपञ्चे त्वया साध्यतया तथाभूतस्वप्रकाशत्वा- द्वितीयत्वादेरभावस्य साधने सिद्धसाधनापत्तेश्च" इति तत्तुच्छम् ; अस्मदीयदूषणानवबोधात् । ब्रह्मसत्त्वं यदि हि प्रपञ्चे स्वीक्रियते, तदा तन्मिथ्यात्वोपपत्तेरित्यन्तेन प्रत्युक्तम् । यदि यथा ब्रह्म सद्रूपं तथा विय- दादीत्युच्यते, तदा चैतन्यस्येत्यादिना प्रत्युक्तम्' । ब्रह्मसत्त्वं च नेत्या- दिकं तु प्रलापः । न हि ब्रह्मणि स्वविषयकत्वरूपं स्वप्रकाशत्वं मिथ्यात्व- विरोधि ब्रूमः, येन सर्व मेयमिति धीसाधारणं स्यात् । नाप्यवेद्यत्वादिमात्रं, येन तुच्छसाधारणम् । किन्तु अन्यानधीनापरोक्षताकत्वादिरूपं, तव ब्रह्मण्येवेत्युक्तम् । ब्रह्माण सत्यताव्यवहारप्रयोजकं यदबाध्यस्वरूपं तन्निष्ठेनाबाध्यत्वव्यापकविषयत्वेन यो भेदः तादृशविषयता सम्बन्धेन ज्ञानात्यन्ताभावो वा तद्घटितं मिथ्यात्वं साध्यम् । अतो न सिद्धसाधन- मित्याद्युक्तमेव । ब्रह्मस्वरूपमिव वियदादिस्वरूपमपि न बाध्यम्, , A.S.V. 1 प्रयुक्तम् 14 209
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२२९
दिखावट