पृष्ठम्:2015.281062.The-Manushyalaya.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः । मानुष्येषु तु बाह्यगेहगतितिष्ठादौ चतुर्हस्तको दण्डो यष्टिरित स्मृतोऽष्टगुणितो दण्डोऽव रज्जुभवेत् ॥१३॥ तालाद्यैः प्रतिमादिकं खलु यवमेयं च भूषादिकं वस्त्रत्रावरणांशुकादि परिमेयं स्याद् वितस्त्या तथा । शस्त्रार्थ तदनामिकाङ्गुलियुगेनैव च तड्यासतो मुष्टया याज्ञिकमाजनादि यजमानस्थान्यदङ्ख्यादिना (म्) ॥ द्विजभवनादिबहुत्वाद् ग्रामाद्याः सम्भवन्ति बहुभेदाः । उत्तनमध्याघनतो मानविशेषैश्च सम्भवेद्वेषाम् ॥ १५ ॥ योजनमितचतुरश्रं भूभागं ग्राममुत्तमं प्राहुः मध्यममर्धप्रमितं प्रायशोऽधमं ग्रामम् ॥ १६ ॥ नगरस्य सहस्रादि द्विसहस्रान्तं व दण्डमानं स्यात् । पत्तनसज्ञं तद्वत् पोतान्त्रितवारि(नि)घितटोपेतम् ॥ १७ ॥ पुरमिति नरवरभवनप्रधान माहूर्वणिग्जनादियुतम् । नगर राजवरालयसकलजनागारमण्डित विदितम् ॥ १८ ॥ एकविप्रवरागारतत्कुटुम्बसमन्वितम् । एकभोगं भवेद् ग्रामं तद्भृत्यायतनावृतम् ॥ १९ ॥ ग्रामाद्यखिलं द्विजभवनादिबहुत्वाद्नेकधा ज्ञेयम् । मानविशेषैरुत्तसमध्याध मसंज्ञितं च सम्भवति ॥ २० ॥ उत्तरयुगबाह्यान्तो मन्दिरविस्तार एवं देवगृहे । श्रेष्ठी इण्डस्तद्वजगति प्रान्तावसानिको मध्यः ॥ २१ ॥ हई 'तदर्वकम्' इत्यमेक्षितं भाति ।