सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्धिः ।.


 पुन. कथारम्भकाले राजपुत्रैरुक्तम्- ' आर्य । विग्रह श्रुतोऽस्माभि । सन्धि- रधुनाभिधीयनाम् ' । विष्णुशर्मणोक्तम्- ' श्रूयताम् । सन्धिमपि कथयामि । यस्यायमाद्य श्लोक-

वृत्ते महति सङ्ग्रामे राज्ञार्निहतसेनयोः ।
स्थेयाभ्यां गृध्रचक्राभ्यां वाचा सन्धिः कृतः क्षणात् ॥ १॥

 राजपुत्रा ऊचु – कथमेतत् १ विष्णुशर्मा कथयति

 ततस्तेन राजहसेनोक्तम् - केनास्मदुर्गे निक्षिप्तोऽग्नि - कि पारक्येण कि बास्मदुर्गवासिना केनापि विपक्षप्रयुक्तेन १ चक्रवाको ब्रूते देव । भवतो निष्कारणबन्धुरसौ मेघवर्ण. सपरिवारो न दृश्यते । तन्मन्ये तस्यैव विचेष्टित- मिदम् ।' राजा क्षण विचिन्त्याह- 'अस्ति तावदेव, मम दुर्दैवमेतत् । तथा चोक्तम्-

अपराधः स दैवस्य न पुनर्मन्त्रिणामयम् |
कार्य सुचरितं कापि दैवयोगाद्विनश्यति ॥ २ ॥ '

 मन्त्री ब्रूते-' उक्तमेवैतत्-

विषमां हि दशां प्राप्य दैवं गर्हयते नरः ।
आत्मनः कर्मदोषांश्च नैव जानात्यपण्डितः ॥ ३ ॥

 अपर च--

सुहृदां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाष्टो विनश्यति ॥ ४ ॥'

 राजाह - ' कथमेतत् १ ' मन्त्री कथयति-

कथा १.

 अम्ति मगवदेशे फुलोत्पलाभिवान सर । तत्र चिर संकटावेकटनामानौ हंसौ निवसत । तयोर्मित्र कम्बुग्रीवनामा कूर्मश्च प्रतिवसति । अथैकदा बीवरैरागत्य तत्रोक्तम् -' यत्रास्माभिरद्योषित्वा प्रातर्मत्स्यकूर्मादयो व्यापादयि- नव्या ' । तदाकर्ण्य कूर्मो हसावाह - 'सुहृदौ !, श्रुतोऽय धीवरालाप | अधुना