पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० पालकाप्यमुनिविरचितो अथातस्तृतीयं शल्यस्थानमारभ्यते । ‘अथातो द्वित्रणीपमध्यायं व्याख्यास्यामः' इति ह स्माऽऽह भगवान्पा लकाप्यः ॥ तपोभिर्विपुलैः पूतमृषिं वारणबान्धवम् । बान्धवो विदुषामङ्ग इमं प्रश्रमैचोदयत् ॥ १ ॥ योनिर्वस्तून्यधिष्ठानं मर्म शल्यसमुद्भवम् ॥ श्रा(स्रावास्त्वाकृतयश्चैव ब्रणानां कतिलक्षणाः ॥ २ ॥ व्रणानां सिद्धिजननाः कति चैषामुपक्रमाः ॥ शास्रतः कति बोध्यन्ते ऋणोपक्रमयोनयः ॥ ३ ॥ विसर्पन्ति च केनैषां प्रायसो(शो) दन्तिनां ब्रणाः ॥ बद्धकोशाश्च जायन्ते स्वल्पमप्यनि(न)धिष्ठिताः ॥ ४ ॥ ये चैषां दुरधिष्ठाना ब्रणास्ते केन हेतुना ॥ अचिराश्चोपरोहन्ति दुष्यन्ति च पुनः पुनः ॥ ५ ॥ केन चैषां न जायन्ते वने दोषोद्रवा व्रणाः ॥ रोहन्ति च विना वैचैः केन वै हेतुना द्विज ॥ ६ ॥ ततः प्रोवाच भगवान्पालकाप्यो महामुनिः । अङ्गराजाय निखिलं विधिं व्रणविधानजम् ॥ ७ ॥ ब्रणस्य त्रिविधा योनिरात्मा च त्रिविधः स्मृतः । वस्तून्यष्टावधिष्ठानं द्विविधं शास्रनिश्चपात् ॥ ८ ॥ द्विविधा चाऽऽकृतिपेनिः श्रा(स्रा)वश्च द्विविधः स्मृतः ॥ शल्यं च द्विविधं ज्ञेयं त्रिविधश्चाप्युपक्रमः ॥ ९ ॥ तस्य च त्रिविधा ज्ञेया'योनिः शास्त्रविनिश्चपात् ॥ पचैव पठिता राजन्ब्रणोपक्रमयोनयः ॥ १० ॥ दुःस्वाधिष्ठान्तरा राजन्संख्यया न(*व हस्तिनः ॥ इत्युद्दिष्टः समुद्दे शस्तत्मविस्तरलक्षणम् ॥ ११ ॥ [ ३ शल्यस्थाने

  • धनुश्चिह्नान्तरगतो भ्रष्टः पाठः कपुस्तके ।

१ ख. °यं स्था"। २ क. *पुलैरमृत"। ३ क. “मवोचय°। ४ क. सिद्धजनकाः। १ क. रुहन्ति । ६ क. त्रिविधं ।