पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने यथोक्तेनैव विधिना मर्दनं तस्य कारयेत् । कुलत्थानाढकीबीजं बदराणि यवांस्तिलान् ॥ पयसा पञ्चमूलं च स्थाल्यामाधाय पाचयेत् । ततोऽस्य कारयेत्स्वेदं नाऊँचैव सततं भिषक् ॥ स्विन्नस्य च पुनः कार्य मर्दनं पूर्वकीर्तितम् । न चेदनेन विधिना गात्रं गच्छति मार्दवम् ॥ ततोऽस्य विधिवत्कार्यः फालस्वेदो ह्यनन्तरः । समीपे तस्य नागस्य कर्म(म)रावेस(श)नं भवेत् । ( * ततोऽस्य पातयेत्फालानमिवर्णान्भिषक्तथा । पटावनद्धगात्रस्य तथा त्रिग्धस्य दन्तिनः । तिलसर्षपचूर्णेश्च यवैश्वाऽऽलेपनं भवेत् ) । ततः संचारयेत्फालं यथायोगं विचक्षणः । स्विन्ने च विधिवत्कापं मर्दनं तस्य हस्तिनः । भवेन्न चेत्भकृतिमान्पुनस्तस्य समाचरेत् ॥ विधिव्यस्तस्य गात्राणां स्तनानां च निवर्तनम् । स(श)णवीर्या(जा)र्कयोलमतसीसर्षपानपि ॥ तिलानि बीजनिचये यवान्कृष्णा च मृत्तिका । सम्यक्क्षीरेण सिद्धेन सुस्वोष्णेनाथ सर्वशः । कल्केनैतेन नागस्य पिण्डस्वेदं प्रकल्पयेत् ।। स्विन्नस्य च पुनः कार्यं मुहूर्तमवगाहनम् । सलिलेनैव नागानां पुनश्चोत्तार्य कारयेत् ॥ एष एव विधिः कार्यः पिण्डस्वेदे यथाक्रमम् । मर्दनं चास्य पूर्वोक्तं नाडीस्वेदं च कारयेत् ॥ अयमन्यो विधिः कार्यः स्तब्धगात्रेषु हस्तिनः । प्रमुझे येन गात्राणां सर्वतोऽप्युपशाम्यति ॥ देवदारु हरिद्रां च सह दारुहरिद्रया । कुठं रास्रां च कालां च सरलं च पुनर्नवा । एवं संभृत्य संभारं पिण्डस्वेदं प्रकल्पयेत् । पूर्वोतेन विधानेन मर्दनं च विचक्षणः ॥

  • धनुश्चिह्नान्तरगते नास्ति पाठः कपुस्तके ।

१ क. "मूलानि स्था० । २ क. *तो यः प्रशा० । ३ क. प्रकल्पयेत् ।