पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
तृतीय उच्छ्वासः

 अथ नरनाथः सावज्ञम् अवादीत्--" रे काकोदर, काक, मयि स्थिते राजहंसे, न जिह्रेषि बलिं याचितुम् ? अमीभिः किं वा परुषभाषितैः? भुजे वीर्यं निवसति, न वाचि । प्रतिपद्यस्व शस्त्रम् । अयं न भवसि" इति । नागस्तु अनादृततरम् "एहि । किं शस्त्रेण ? भुजाभ्यामेव भनज्मि भवतो दर्पम्” इत्यभिधाय आस्फोटयामास । नरपतिरपि उत्सृज्य सचर्मफलकम् असिम् , अधोंरुकस्य उपरि बबन्ध बाहुरुद्धाय कक्ष्याम् ॥

 युयुधाते च तौ बाहुदण्डैः । नचिराच्च पातयामास भूतले । भुजंगं भूपतिः । जग्राह च केशेषु । उच्चस्वान च शिरः छेत्तुम् अट्टहासम् । अपश्यच्च वैकक्षकमालान्तरेण अस्य यज्ञोपवीतम् । उपसंहृतशस्त्रव्यापारश्च अवादीत्--“दुर्विनीत, अस्ति ते दुर्नयनिर्वाहबीजमिदम् । यतो विस्रब्धमेव आचरसि चापलानि” इत्युक्त्वा उत्ससर्ज तम् ॥

 अत्रान्तरे च सहसैव अतिबहलां ज्योत्स्नां ददर्श । झटिति नूपुरशब्दम् अशृणोत् । व्यापारयामास च शब्दानुसारेण दृष्टिम् । अथ करतलस्थितस्य अट्टहासस्य मध्ये स्फुरन्तीम्, तामरसहस्ताम्, मृणालकोमलैः अवयवैः कमलसंभवत्वम् अनक्षरम् आचक्षाणां स्त्रियम् अपश्यत् । असंभ्रान्तश्च “भद्रे, कासि ? किमर्थं वा दर्शनपथम् आगतासि ?” इति पप्रच्छ ॥

 सा तु "वीर, विद्धि मां श्रियम् । अपहृता अस्मि तव अमुना शौर्यरसेन । याचस्व । ददामि ते वरम् अभिलषितम्" इति अभाषत ॥

 राजा तां प्रणम्य, स्वार्थविमुखः, भैरवाचार्यस्य सिद्धिं ययाचे । लक्ष्मीस्तु देवीं प्रीततरहृदया, “एवम् अस्तु" इत्यब्रवीत् । अवादीच्च