पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
तृतीय उच्छ्वासः

 परिव्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाणि उपायनी चकार । एकदा तु "महभाग, भवन्तम् आह भगवान् । यथा अस्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः । तेन ब्रह्मराक्षसहस्तान् अपहृतो महासिः अट्टहासनामा । सोऽयं भवद्भुजयोग्यो गृह्यताम्' इति ” इत्यभिधाय अपहृतकर्पटावच्छादनात् परिवारात् आचकर्ष कृपाणम् ।।

 अवनिपतिस्तु तं गृहीत्वा करेण, सुचिरं ददर्श । परिव्राट् तु गृहीते तस्मिन् , परितुष्टः ‘स्वस्ति भवते । साधयामः” इत्युक्त्वा निरयासीत् ।

 अथ व्रजत्सु दिवसेषु एकदा भैरवाचार्यो राजानम् उपह्वरे सोपप्रहम् अवादीत् -- “तात, भगवतो महाकालहृदयनाम्नो महामन्त्रस्य महाश्मशाने जपकोट्या कृतपूर्वसेवोऽस्मि । तस्य च वेतालसाधनावसाना सिद्धिः । असहायैश्च सा दुरवापा । त्वं च अलम् अस्मै कर्मणे । त्वयि च गृहीतभरे भविष्यन्ति अपरे सहायाः त्रयः | एकः स एव अस्माकं बालमित्रं टीटिभनम मस्करी, यो भवन्तम् उपतिष्ठते । द्वितयः स पातालस्वामी । अपरो मच्छिष्य एव कर्णतालनामा द्राविडः । यदि साधु मन्यसे, ततो नीयताम् अयं गृहीताट्टहासो बाहुः एकदिङ्मुखार्गलताम् ” इति ॥

 ‘‘भगवन् , परम् अनुगृहीतोऽस्मि अनेन निदेशेन ” इत नरेन्द्रः समभाषत । ननन्द च तेन नरेन्द्रव्याहृतेन भैरवाचार्यः । चकार च संकेतम्-“ अस्यामेव आगामिन्याम् असितपक्षचतुर्दशीक्षपायाम् इयत्यां वेलायाम् अमुष्मिन् महाश्मशानसमीपभाजि शून्यायतने शस्त्रीद्वितीयेन आयुष्मता द्रष्टव्या वयम् ” इति ॥