पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
(२)

मौखरिणां तन्नाम्नां राज्ञां वंशः=मौखरिवंशः ॥
मङ्गलम् अर्हति, मङ्गले साधु वा=मङ्गल्यम् ॥
मुहूर्तं विदन्ति=मौहूर्तिकाः ॥
समुत्सारितः निखिलः अनिबद्धः =(असंबद्धः) लोकः यस्मात्तत् = समु...कम् ॥
"सा तु नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिका"
"भोगागारं वासगृहम् "
कवचं हरति ( स्वीकरोति ) इति = कवचहरः । "वयसि च" इति अच्प्रत्ययः ॥
“वसनं वसतिः, तत्र साधुः = वाससेयी रात्रिः ।" “पथ्यतिथिवसतिस्वपतेर्ढञ्"
वेत्रपट्टिकाम् अधिशयानः-- "अधिशीङ्स्थासां कर्म "
ब्राह्मणसात् = ब्राह्मणदेयम् ।

"देये त्रा च"

अष्टाङ्गस्य - "शल्यम् , शालाक्यम् , कायचिकित्सा , भूतविद्या, कौमारभृत्यम्, अगदतन्त्रम् , रसायनतन्त्रम्, वाजीकरणतन्त्रम् ॥
स्वपतये साधु=स्वापतेयम् ।
प्रशस्तः पुरुषः=पुरुषप्रकाण्डम् ।
अहमिव पश्यति दृष्टिविषयीभवतीति=मादृशी । त्वादृश, तादृश, ईदृश, कीदृश ।
जजागार जजागरतुः जजागरुः।

लटि--जागर्ति , लुङि--अजागरीत् ।

"अपस्नातो मृतस्नातः"
कृशस्य भावः-=क्रशिमा ।
न पन्थाः = अपथम्, अपन्थाः ।

" पथो विभाषा "

कुत्सितः पुरुषः==कापुरुषः ।
कर्मणः अन्तः अस्मिन् अस्तीति कर्मान्तिकः ।
स्त्रीणां समूहः-स्त्रैणम् ।
ललाटं तापयन्तीति ललाटंतपाः ।
व्यरंसीत्–-लुङ् । (विरमति )
तनूं न पातयतीति =तनूनपात्।
अक्षाणां भूतानां व्यवहाराणां

वा पटले समूहे नियुक्तः =अक्षपटलिकः; ग्रामस्य अक्षप टलिकः=प्रामाक्षपटलिकः ॥