|
जन्मनां पदम् , जनैः पद्यते प्राप्यते इति वा = जनपदः ॥
|
महेश्वरः भक्तिः-भजनीयः यस्य सः = माहेश्वरः ॥
|
दक्षिणा भवः = दाक्षिणात्यः ॥
|
परित्यज्य सर्वं व्रजतीति = परिव्राट् ॥
|
"मस्करमस्करिणौ वेणुपरिव्राजकयोः"
|
प्रतस्थे--"समवप्रविभ्यः स्थः"
|
कपटै:-जीर्णवस्त्रैः चरन्ति इति, कर्पटं तत्त्वं विदन्ति इति वा कार्पटिकाः ॥
|
उत्तानः शेतेइति = उत्तानशयः ॥
|
जाते जाते विद्यते इति, जातं जातं वेत्तीति वा जातवेदाः ॥
|
त्रिशङ्कोः इदम्त्रै = त्रैशङ्कवम् ॥
|
दूर, दवीयस् , दविष्ठ ॥
|
भनज्मि, भञ्जवः, भञ्ज्मः ॥
|
"ऊरोः अर्धम्, तत्र काशते इति = अर्धोरुकम् ॥"
|
"वैकक्षकं तु तत् । यत्तिर्यक् क्षिप्तमुरसि ॥” (माल्यम्)
|
|
तामरसं हस्ते यस्याः सा = तामरसहस्ता ॥
|
दर्शनस्य पन्थाः = दर्शनपथः ॥
|
सूर्यश्च चन्द्रमाश्च = सूर्याचन्द्रमसौ ।
|
गन्तुम् इच्छुः = जिगमिषुः ॥
|
क्षीणेन-क्षीणभागेन भूयिष्ठा = क्षणभूयिष्ठा ॥
|
दिनस्य मध्यम् = मध्यंदिनम् ॥
|
"ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् ॥"
|
"हर्षादुत्सवकाले यदलंकाराम्बरादिकम् । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥"
|
ब्रह्म--वेदः, मुखे येषां ते = ब्रह्ममुखाः ॥
|
पञ्च वा षड्वा = पञ्चषाणि ॥
|
अष्ट वर्षाः यस्य सः = अष्टवर्षः ।
ईषदसमाप्तः अष्टवर्षः = अष्टवर्षदेशीयः । "ईषदसमाप्तौ कल्पब्देश्यदेशीयरः" ॥
|
चतुर्भिः अङ्गैः-जानुभ्यां हस्ताभ्याम् ।
|
|