पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
अष्टम उच्छ्वासः ।

वृत्तान्तमप्राक्षीत् । अथाकथयच्च यथावृत्तमखिलं भण्डिः । अथ नरपतिस्तमुवाच--"राज्यश्रीव्यतिकरः कः?" इति । स पुनरवादीत्--"देव, देवभूयं गते देवे राज्यवर्धने, गुप्तनाम्ना च गृहीते कुशस्थले, देवी राज्यश्रीः परिभ्रश्य बन्धनात् विन्ध्याटवीं सपरिवारा प्रविष्टेति लोकतो वार्तामशृणवम् । अन्वेष्टारस्तु तां प्रति प्रभूताः प्रहिता जना नाद्यापि निवर्तन्ते” इति । तच्चाकर्ण्य भूपतिरब्रवीत्--"किमन्यैरनुपदिभिः । यत्र सा, तत्र स्वयमहं यास्यामि । भवानपि कटकमादाय प्रवर्ततां गौडाभिमुखम्" इत्युक्त्वा चोत्थाय स्नानभुवमगात् । कारितशोकश्मश्रुवपनकर्मणा च प्रतीहारभवनस्नातेन भण्डिना सार्धमभुक्त । निनाय च तेनैव सह वासरम् ॥

 अथापरेद्युरुषस्येव भण्डिर्भूपालमुपसृत्य, श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्हं दर्शयांबभूव । अथ तत्सर्वमवनिपालः स्वीकर्तुं यथाधिकारमादिक्षदध्यक्षान् । अन्यस्मिंश्चाहनि हयैः स्वसारमन्वेष्टुमुच्चचाल विंन्ध्याटवीम् । अवाप च परिमितैरेव प्रयाणकैस्ताम् । अथ प्रविशन्, अटवीकुटुम्बिनां गृहैरुपेतं वनग्रामकं ददर्श । तत्रैव चावसत् ॥

इति हर्षचरिते छत्रलब्धिर्नाम सप्तम उच्छ्वासः ॥

॥ अष्टम उच्छ्वासः ॥

 अथापरेद्युरुत्थाय पार्थिवस्तस्माद्ग्रामकान्निर्गत्य विवेश विन्ध्याटवीम्। आट च तस्यामितश्चेतश्च सुबहून् दिवसान् ।.

 एकदा तु भूपतेर्भ्रमत एव, आटविकसामन्तशरभकेतोः सूनुः