पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
षष्ठ उच्छ्वासः।

दिलीपे वा रघुणा, दशरथे वा रामेण, दुष्यन्ते वा भरतेन । यं च किल शोकः समभिभवति, तं कापुरुषमाचक्षते । स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि । एवमास्पदं पितृशोकहुतभुजो जातोऽस्मि । मम हि प्रनष्टः प्रज्ञालोकः । प्रज्वलितं हृदयम् । नोपसर्पति विवेकः । मुह्यति मतिः । सोऽहमिच्छामि मनसि सुलग्नं स्नेहमलमिदं क्षालयितुमाश्रमपदे । त्वं गृहाण मे राज्यचिन्ताम् । परित्यक्तं मया शस्त्रम्” इत्येवमभिधाय खड्गग्राहिणो हस्तादादाय निजं निस्त्रिंशमुत्ससर्ज धरण्याम् ॥

 अथ तच्छ्रुत्वा निशितशिखेन शूलेनेवाहतो देवो हर्षः समचिन्तयत्--"किं नु खलु मामन्तरेण आर्यः केनचिदसहिष्णुना किंचित् ग्राहितः कुपितः स्यात् ? उतानया दिशा परीक्षितुकामो माम् । उत शोकजन्मा चेतसः समाक्षेपोऽयमस्य । आहोस्वित् आर्य एवायं न भवति । को हि नाम तद्विधे निपतिते जनयितरि, ईदृशे च भ्रातरि तपोवनं गच्छति, मृद्गोलकं वसुधाभिधानं चण्डालोऽपि कामयेत । कथमिव संभावितमत्यन्तमनुचितमिदमार्येण । किं वास्य चेतसश्च्युतः सौमित्रिः ? किं वा ममानेन वृथा बहुधा विकल्पितेन । तूष्णीभेवार्थमनुगच्छामि” इत्यवधार्य तूष्णीमवातिष्ठत ॥

 अत्रान्तरे पूर्वादिष्टेनैव वस्त्रकर्मान्तिकेन समुपस्थापितेषु वल्कलेषु, रटति राजस्त्रैणे, निराशेषु निश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु प्रजासु, सहसैव प्रविश्य प्रक्षरितनयनसलिलो राज्यश्रियः परिचारकः संवादको नाम विमुक्ताक्रन्दः सदस्यात्मानमपातयत् ॥

 अथ संभ्रान्तो राज्यवर्धनस्तं पर्यपृच्छत्--"भद्र, भण भण ।