पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
हर्षचरिते

 अनन्तरं च द्वारपालमुक्तेन प्रथमप्रविष्टेन परिजनेनेव आक्रन्देन कथ्यमानम्, प्रथीयसा बाष्पपयःप्रवाहेण महीमनवरतं सिञ्चन्तम्, क्रीतमिव क्रशिम्ना, पिष्टमिव पीडया, असाध्येन साधुभाषितानाम् अगम्येन गुरुगिराम् अपथेन प्रज्ञाप्रयत्नानां शोकेन कबलीकृतं ज्येष्ठं भ्रातरमपश्यत् ॥

 अथ दूरादेव दृष्ट्वा देवो राज्यवर्धनः, चिरकालकलितं बाष्पवेगं मुमुक्षुः, सुदूरप्रसारितेन दोर्दण्डद्वयेन गृहीत्वा कण्ठे भ्रातरम्, मुक्तकण्ठं रुरोद । सुचिराच्च कथं कथमपि निर्वृष्टनयनजलः स्वयमेवोपशशाम । तूष्णीमेव च चिरं स्थित्वा उत्थाय स्नानभूमिमगात् । तस्यां च स्थित्वा मौलिमनादरात् निष्पीड्य, चतुःशालवितर्दिकायां पर्यङ्कियां निपत्य जोषमस्थात् ॥

 देवोऽपि हर्षस्तथैव स्नात्वा अदूर एवास्य समवातिष्ठत । दृष्ट्वा दृष्ट्वा दूयमानमानसमग्रजन्मानं समस्फुटदिव अस्य सहस्रधा हृदयम् । सर्वस्मिन्नेव नगरे न केनचिदस्नायि, न केनचिदपाचि, न केनचिदभोजि, सर्वत्र सर्वेणारोदि । केवलमनेन क्रमेण अतिचकाम दिवसः । स च पारावारपयसि ममज्ज मज्जिष्ठारुणोऽरुणसारथिः । अकाशत चाकाशे शशाङ्कमण्डलम् । अस्यां च वेलायाम् अनतिक्रमणीयवचनैरुपसृत्य प्रधानसामन्तैर्विज्ञाप्यमानः कथंकथमप्यभुक्त ॥

 प्रभातायां च शर्वर्याम् सर्वेषु प्रविष्टेषु राजसु, समीपस्थितं हर्षदेवमुवाच-"तात, भूमिरसि गुरुनियोगानाम् । शैशव एवाग्राहि भवता तातस्य चित्तवृत्तिः । भवन्तमेवंविधं विधेयं किमपि बिभणिषति मे हृदयम् । नालम्बनीया बालभावसुलभा वामता । न खलु न जानासि लोकवृत्तम् । मांधातरि मृते किं कृतं पुरुकुत्सेन,