पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
हर्षचरिते

तनिमा । सुखं च राज्यं च वंशश्च प्राणाश्च त्वयि मे स्थिताः । तदुत्तिष्ठ । कुरु पुनरेव सर्वाः क्रियाः । कृताहारे च त्वयि, अहमपि स्वयमुपयोक्ष्ये पथ्यम्" इति । क्षणमात्रं च स्थित्वा पित्रा पुनराहारार्थमादिश्यमानो धवलगृहादवततार ॥

  राजपुरुषेणाधिष्ठितश्च गत्वा स्वधाम, धूममयानिव कृताश्रुपातान् अग्निमयानिव जनितहृदयतापान् कतिचित्कबलान् अगृह्णात् । अस्ताभिलाषिणि च सवितरि, सर्वानाहूय उपह्वरे वैद्यान्, "किमस्मिन्नेवंविधे विधेयमधुना" इति विषण्णहृदयः पप्रच्छ । तेषां तु भिषजां मध्ये, अष्टादशवर्षदेशीयः पारं गतोऽष्टाङ्गस्य आयुर्वेदस्य रसायनो नाम वैद्यकुमारकः "देव, श्वः प्रभाते यथावस्थितम् आवेदयितास्मि" इत्यब्रवीत् ॥   गतेषु च भिषक्षु, क्षतधृतिः क्षपामुखे क्षितिपालसमीपमेव पुनरारुरोह । दूयमानहृदयो दुःखदीर्घा जाग्रदेव निशामनैषीत् ॥

  उषसि चावतीर्य, चरणाभ्यामेवाजगाम स्वमन्दिरम् । तत्र च त्वरमाणो भ्रातुरागमनार्थम् उपर्युपरि क्षिप्रपातिनो दीर्घाध्वगान् प्रजविनश्च उष्ट्रपालान् प्राहिणोत् । अग्रतः स्थितानां च राजपुत्रयूनां विमनसाम् "रसायनो रसायनः" इति जल्पितमव्यक्तमश्रौषीत् । पृष्टाश्च ते "देव, पावकं प्रविष्टः" इति दुःखेन कथं कथमप्याचचक्षिरे । तच्च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णतामगात् । दुःखार्तश्च न जगाम राजसद्म । समुत्ससर्ज च सर्वकार्याणि । शयनीये निपत्य उत्तरीयवाससा सोत्तमाङ्गमात्मानमवगुण्ठ्य अतिष्ठत् । महोत्पातदर्शनदूयमानश्च कथमपि निनाय निशाम् ॥

  अन्यस्मिन्नहनि, "क्व कुमारः, क्व कुमारः" इति प्रतिपुरुषं