पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
हर्षचरिते

दूतपुरुषस्य करे सर्वसमक्षं दुहितृदानजलम् अपातयत् । जातमुदिकृतार्थे गते च तस्मिन् , आसन्नेषु च विवाहदिवसेषु, रमणीयं च औत्सुक्यदं च मङ्गल्यं च आसीद्राजकुलम् ॥

 देवी तु यशोवती विवाहोत्सवपर्याकुलहृदया, हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निमन्त्रितस्त्रीषु, आदेशेन परिजने, एकापि बहुधा विभक्तेवाभवत् ।।

 एवं च तस्मिन्नविधवामय इव भवति राजकुले, भूषणमय इव भ्रमति परिजने, लक्ष्मीमय इव विजृम्भमाणे महोत्सवे, आलोक्यमान इव मार्गध्वजैः आहूयमान इव मौहूर्तिकैः आकृष्यमाण इव मनोरथैः, आजगाम विवाहदिवसः। प्रातरेव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्तम् अक्रियत राजकुलम् ।।

 अथ प्रतीहारः प्रविश्य नृपसमीपम् ‘‘देव, जामातुरन्तिकात् ताम्बूलदायकः पारिजातकनामा संप्राप्तः” इत्यभिधाय, स्वकारं युवानम् अदर्शयत् । आगतजामातृनिवेदनागतं च तं ज्ञात्वा राजा "यामिन्याः प्रथमे यामे विवाहकालात्ययकृतो यथा न भवति दोषः" इति संदिश्य प्रतीपं प्राहिणोत् ।

 अथ समवसिते वासरे, नक्षत्रमालामण्डितमुखीं करिणीमरूढः, दीपिकाचक्रवालस्यालोकेन पिञ्जरीकुर्वन्सकलं जीवलोकम्, नववधूवदनालोकनकुतूहलेनेव कृष्यमाणहृदयः आजगाम प्रत्यासन्नलग्नो गृहवर्मा ।।

 नचिराच्च नृपमुपसृत्य मौहूर्तिका "देव, समसीदति लग्नवेला । व्रजतु जामाता कौतुकगृहम्’ इत्यूचुः । अथ नरेन्द्रेण "गच्छ" इति गदितो गृहवर्मा आससाद कौतुकगृहद्वारम् । निषारितपरिज