पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
हर्षचरिते

 अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चित्काले, नभसि देवक्या इव चक्रपाणिः यशोवत्या हृदये गर्भे च सममेव संबभूव हर्षः । ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुपक्षद्वादश्यां व्यतीते प्रदोषसमये समारुरुक्षति क्षपां यौवने, सहसैव अन्तःपुरे समुदपादि कोलाहलः स्त्रीजनस्य । निर्गत्य च ससंभ्रमं यशोवत्याः स्वयमेव हृदयनिर्विशत्या धात्र्याः सुता सुयात्रा राज्ञः पादयोर्निपत्य "देव, दिष्ट्या वर्धसे द्वितीयसुतजन्मना" इति व्याहरन्ती पूर्णपात्रं जहार ॥

 तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः समुपतस्थिरे द्विजातयः। साक्षाद्धर्म इव शान्त्युदकफलहस्तः तस्थौ पुरः पुरोधाः । प्रावर्तत च विगतराजकुलस्थितिः, समस्वामिपरिजनः, निर्विशेषबालवृद्धः, दुर्ज्ञेयमत्तामत्तप्रविभागः पुत्रजन्मोत्सवो महान् ॥

 एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरपि अतिक्रामति काले, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षम् अवतरति च राज्यवर्धने, देवी यशोवती गर्भेण अधत्त राज्यश्रियम् । पूणेषु च प्रसवदिवसेषु गौरीमिव मेनी प्रसूतवती दुहितरम् ॥

 अस्मिन्नेव तु काले देव्या यशोवत्या भ्राता, सुतम् अष्टवर्षदेशीयं मकरध्वजमिव पुनर्जातं भण्डिनामानम् अनुसरं कुमारयोः अर्पितवान् ॥

 एका च भुक्तवान् अभ्यन्तरगतः पिता, सुतौ आहूय, वत्सौ, प्रथमं राज्याङ्गं दुर्लभाः सद्भृत्या: । अतः परीक्षितौ शुची विनीतौ विक्रान्तौ मालवराजपुत्रौ भ्रातरौ कुमारगुप्तमाधवगुप्तौ भवतोः अनुचरत्वार्थम् अस्माभिः निर्दिष्टौ । अनयोरुपरि भवद्भ्यामपि