पृष्ठम्:हर्षचरितम् (लघुसङ्ग्रहः).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ चतुर्थ उच्छ्वासः ।


 अथ तस्मात्पुष्पभूतेः, दुर्जयबलसनाथो हरिवंश इव शूरात् निर्जगाम राजवंशः ॥

 यस्मात् अविनष्टधर्मधवलाः प्रतापाक्रान्तभुवना अजायन्त राजानः ॥

 तेषु च एवमुत्पद्यमानेषु क्रमेण उदपादि हूणहरिणकेसरी, प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः ।

 तस्य च, पार्वतीव शंकरस्य, लक्ष्मीरिव लोकगुरोः,रोहिणीव कलावतः, हंसमयीव गतिषु, मधुमयीव संभाषणेषु, यशःपुष्टिरिव चारित्रस्य, हृदयतुष्टिरिव धर्मस्य, शमस्यापि शान्तिरिव, विनयस्यापि विनीतिरिव, धैर्यस्यापि धृतिरिव, यशोवती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य धर्मस्य सुखस्य च भूमिरभूत् ॥

 निसर्गत एव च स नृपतिः आदित्यभक्तो बभूव । प्रतिदिनम् उदये दिनकृतः स्नातः सितदुकूलधारी प्राङ्मुखः क्षितौ जानुभ्यां स्थित्वा कुङ्कमपङ्कानुलिप्ते मण्डलके रक्तकमलषण्डेन अर्चां ददौ । अजपच्च प्रत्युषसि मध्यंदिने दिनान्ते च अपत्यहेतोः प्रयतेन मनसा मन्त्रम् आदित्यहृदयम् ॥

 ततः समतिक्रान्ते कस्मिंश्चित्कालांशे देव्यां यशोवत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्भे । गर्भस्थितस्यैव च यस्य यशसेव पाण्डुताम् अधत्त जननी । अदतीर्णे च दशमे मासि असूत देवं राज्यवर्धनम् ॥