पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
हरिहरसुभषितम्

इत्याकुलं द्रविणपाणिरुपेत्य कामी
 द्वारान्तिकं चकितमञ्चति वारवध्वा ॥५॥

एतेषामनुकूलो दक्षिणधृष्टौ शठश्चेति ।
भेदचतुष्टयमेषां वदाम्युदाहरणमेकैकम् ॥ ६ ॥

नेष्यामि हा कथमरण्यदरीषु सीतां
 तामन्तरा व पुनरक्षिपुटं क्षिपामि ।
इत्थं वधूं विपिनसार्थचरी विधातुं
 गेहे निधातुमपि रोदिति रामचन्द्रः ॥ ७॥

मान्या कुन्तिनभूरभूदसुभगा कुत्राथ सात्राजिती
 वैषम्यस्य कथापि मे धरणिभृत्कन्यासु नान्यावपि ।
इत्थं दित्सति पारिजातकुसुमं संदेहदोलायिते
 भूयः पश्यति नारदस्य वदनं देवे भवेन्मे मतिः ॥ ८॥

नीत्वान्यत्र निशामुपेत्य सुदृशो बाष्पाम्भसा नापिते
 वीक्ष्यात्मप्रतिमां कपोलफलके संभोगचिह्नाङ्किताम् ।
मूर्धालक्तमानतश्चरणयोश्चुम्बन्बलादाननं
 धृष्टः स्वाधरपल्लवाञ्जनमपि प्रच्छादयन्प्रोञ्छति ॥ ९॥

चुम्बति कपोलपालीमलीकसौभाग्यमेकस्याः ।
तत्प्रतिविम्बितमाननमन्यस्याः स्मरतां नयति ॥ १०॥

भेदास्त्वेषां शतशो विमुग्धमध्यप्रगल्भाद्याः ।
प्रायेण तेऽपि कुशलैरुन्नेया नायिकाभेदैः ॥ ११ ॥

अथ नायिकाप्रभेदास्तत्र नवोढानवोढविश्रब्धा ।
मध्या तदनु प्रौढा तासामग्रे क्रमादुदाहरणम् ॥ १२ ॥

दृशं दूरात्पत्युः परिहरति किं श्रोष्यति वच-
 स्तदासन्नं सम त्यजति किमुपायास्यति रहः ।
तदीयं नामापि श्रुतिपथमुपेतं न सहते
 नवोढा नियूंढामिह विमतिमुन्मुञ्चतु कुतः ॥ १३ ॥