पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
हरिहरसुभषितम्

प्रस्तावे समयादेतर्वर्णनमाकर्णयन्नृपतिः ।
प्रायः प्रसीदतीति प्रसादयेदेनमेतेन ॥ १॥

कान्ते स्नेहनिधौ समीयुषि मधौ जित्वा श्रियं शैशवीं
 विश्लेषादितरस्य पाण्डिमभृतामालीलतानामियम् ।
कर्तुं नूतनचित्रपत्ररचनां किं काननश्रीरिमां
 प्राचीनां पवनाञ्चलेन परितः पत्रावलीं लुम्पति ॥ २॥

दरोन्मीलन्मल्लीमुकुरकुहराभ्यन्तरगतं
 त्वरासाद्यं सद्यो दलमविकलीकृत्य सकलम् ।
समीपे संविश्य क्षणमथ परिक्रम्य परितो
 न पातुं हातुं वा प्रभवति मरन्दं मधुकरः ॥ ३ ॥

अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपा-
 त्पुष्प्यात्किंशुकचूतनूतनदलाविर्भूतशाणश्रियः ।
पद्मोल्लासितगन्धवासितवहद्वातावदातद्विषो
 मोदोन्मादजुषो हरन्ति हृदयं वासन्तिका वासराः ॥ ४ ॥

प्रसूनपटलारुणोन्नतपलाशजालक्षका
 न्मनांसि मदनो बलाद्दहति मानिनीनां मुहुः ।
न चित्रमिदमुद्गता यदिह भृङ्गधूमावली
 वियोगिनयनाञ्चलीर्नयति खेदमस्राम्बुभिः ॥ ५ ॥

संततागतवसन्तमारुतप्रोल्लसल्ललितपल्लवोर्मिभिः ।
प्लाविता वनलताभिलाषिणः शाखिनः किमनुरागसागरैः ॥ ६ ॥

कर्णाटीकेलिंबाटीविटपिनवदलान्दोलनाश्चोलवाला
 चञ्चच्चाम्पेयमालानिविलपरिमलाकर्षणोत्कर्षभाजः ।
वाता दातार एते मलयजमधुरामोदपूरैः प्रमोदा
 गोदावीचीविनोदार्जितजडिमगुणानुद्वहन्तो वहन्ति ॥ ७ ॥

व्याधूतचूतनूतनसौरभधनमञ्जरीपरीलब्धाः ।
वाताः सरानुयाता वसन्ति वासन्तिकासु लतिकासु ॥ ८ ॥