पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
हरिहरसुहषितम्

त्वद्बाणेषु यमो जयेषु नियमो याने स्थिरं चासनं
श्रान्तौ श्वासविनिग्रहो गुणगणे प्रत्याहृतिः श्रीमतः ।
ध्यानं शूलिनि धारणा च धरणौ धर्मे समाधिर्यत
स्तनिर्विण्णहृदः किमीश्वरपरे ध्यायन्ति पातञ्जले ॥ ३६ ॥

एकं वस्तु यदस्ति नित्यनिबिडानन्दप्रबोधात्मकं
 सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव विश्राम्यति ।
त्वामाकर्ण्य न किंचिदन्यदवनीशृङ्गारमन्मन्यते
त्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया ॥ ३७॥

गुणास्ते निःक्षोभाः प्रकृतिरियमाधत्त भवतो
महत्तत्त्वं तच्चाप्यजनयदहंकारमुचितम् ।
कृतं तेनाप्युर्वीरमण गुणमात्रार्जनमितः
स्फुरत्कर्मज्ञानेन्द्रियसचिवसूर्यादिकमभूत् ॥ ३८ ॥

इति श्रीहरिहरसुभाषिते राजप्रशस्तिप्रकरणम् ॥५॥

स्वस्याथ वा परस्य द्वित्राणि मनोहराणि पद्यानि ।
आख्याय व्याख्येयान्यव्यग्रं मधुरमग्रतो नृपतेः॥१॥

विद्वानयमितरो वेत्याख्यानव्याख्ययोरेव ।
प्रायः प्रथमे पद्ये परीक्ष्यते परिषदा पुरुषः ॥२॥

यद्यप्रसङ्गसंगतमथान्यथा वापि किंचिदवतार्य ।
स्वाधीतदर्शनोक्तं युक्तं विद्वानुपन्यसति वस्तु ॥ ३ ॥

यावद्वचनावसरं ब्रूते मधुरं निराकुलं सदसि ।
पश्यन्नरपतिसदनं तिष्ठति तदनन्तरं धीरः ॥ ४ ॥

नासंततमभिदध्यादध्यास्य सदः प्रभुत्वमत्त्वस्य ।
यावन्नरपतिरुचितं वक्तुमपर्याप्तमप्युचितम् ॥ ५॥

पृष्टे ब्रवीतिः हृष्टे हर्षमुपायात्यवादिते मौनी ।
नृपसदसि नोचितामप्यसंमतो वाचमुद्विरति धीरः ॥ ६॥