श्वेवायात्याहूतः शर इव संयात्यनुप्रहितः ।
मन इव हितनिहितात्मा सुकृतशतैः सेवको भवति ॥ ३१ ॥
शठमतिरलसप्रकृतिः प्राज्ञंमन्यश्च लोलुपश्चपलः ।
अभिमानवान्निदेशाक्षेप्ता सप्तापि सेवका विपदः ॥ ३२ ॥
यानाशनशयनासनवेशाद्युपयोगिवस्तुविस्तारैः ।
सुखिनः प्रवसन्ति नराः प्रवसति कश्चित्कमण्डलुकरोऽपि ॥ ३३ ।।
कौपीनवानपि गतः श्रिया वृतः सम्यगेति सत्पुरुषः ।
श्रीमानपि प्रयातः कापुरुषः पुनरुपैति कौपीनी ॥ ३४ ॥
सति संभवे शयानः सुविदितगन्तव्यवर्त्मसंस्थानः ।
अनुचरजनहितकारी वन्याहारी भवेत्पथिकः ॥ ३५ ॥
तत्तत्पथपथिकक्रमसमुचितसंचारवासविश्रामः ।
पथि संचरेदवहितः परिचयरहितेषु येषु तेष्वेव ।। ३६ ॥
नापरिशीलितशीले सद्मन्यपि विश्वसन्ति विद्वांसः ।
परदेशेषु कराले कलिकाले कस्य विश्वासः ॥ ३७ ॥
शनकैः संतीर्णपथः पुरोपकण्ठे धरापतेर्धीरः ।
विश्रम्य विदितवासप्रदेशमस्मिन्प्रवेशमाचरति ॥ ३८ ॥
पुरतः पुरमपरिचितं न नीचवेशा विशन्ति विद्वांसः ।
प्रथमेक्षितामवस्था यस्मात्सर्वे सरन्ति सर्वस्य ।। ३९ ॥
नगरे नरेश्वरस्य प्रविश्य पुरतो विचीयते वसतिः ।
आरामदेवमन्दिरवापीकूपादिरम्यविजनेषु ॥ ४० ॥
नाचरति दूरदर्शी परदेशी पौरविपरीतम् ।
नापरिचितस्य सहते तनुतरमपि वैकृतं लोकः ॥ ४१ ॥
पुरतः परनगरगतः परिचयमासाद्य साधुलोकेन ।
निभृतेन भवति निपुणः सदसन्नृपभृत्यवृत्तविज्ञाने ।। ४२ ।
सुविदितसकलविशेषः समुज्वलैरनुचरैरनुचितवेषः ।
अभिगत्य पश्यति पुरः पुरस्कृतं नरपतेर्धीरः॥ ४३ ॥