पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
हरिहरसुभषितम्


अपि जलकणान्पयोधेर्दूरादाहृत्य जायते जलदः ।
निकटाद्धटानपि शतं समाहरन्वारिहार्येव ।। १८॥

तत्तद्देशाचारश्रुतवेषवचोविशेषवैदग्ध्यम् ।
विदुषामिदं विभूषारत्नमयत्नादुपैति परदेशे ॥ १९ ॥

भ्रमतामुदेति जगतो वैचित्र्यविलोकनेन विज्ञानम् ।
यादृच्छिकानि पुण्यान्यनेकतीर्थाभिषेकजनितानि ॥२०॥

कलिकलुषसंकटाकुलकुटुम्बसंवलनखेदविकलस्य ।
प्रतिनिधिरिव प्रवासः संसारविरागमुखमुदस्य ॥ २१॥

योषिदजनितापत्या नित्यापरिभूतवैरिणः क्षितिपाः ।
गुणिनो विदेशविमुखा न सुखाय भवन्ति बन्धूनाम् ॥ २२ ॥

नानानरपतिपरिषत्परिगणितगुणो जनो जगति ।
यज्जीवति तज्जीवितमितरत्किं तन्न जानीमः ॥ २३ ॥

यदपि प्रवासगमनं जीवितसंदेहदोलिकारोहः ।
तदपि तदेव श्रेयो जीवनमरणादनुद्यमहतस्य ॥ २४ ॥

प्रवसन्त्वनलसमनसः परानुरागोन्मुखाः पुरुषाः ।।
अलमलसैर्जनविसरैश्चिरमपि परदेशदर्शिभिः पशुभिः ॥ २५ ॥

शीतातपवर्षाणामुत्कर्षान्संभवे समपहाय ।
प्रवसेदसंभवेऽपि प्रावृषि न प्रोषितो भूयात् ॥ २६ ॥

कः प्रेत इति प्रश्ने सदुत्तरे प्रान्तभक्षकं रक्षः ।
प्रादाद्धनमतिहर्षात्प्रेतं वर्षाध्वगं [व]दते ॥ २७ ॥

सदासरे सुलग्ने प्रमोदमाने च मङ्गलैर्मनसि ।
गरुडारूढस्य हरेः सरेत्प्रयातः पदाम्बुरुहम् ॥ २८ ॥

सति संभवे सहायैः प्रसरति बहुदेशदर्शिभिर्बहुभिः ।
ग्रामाद्ग्रामान्तरमपि जातु सचेताः प्रयाति नैकाकी ॥ २९ ॥

विपदं प्रतिपदसुलभा कः प्रतिकुर्याद्विना सहायेन ।
एकाकिनो जगदिदं जनमयमपि निर्जनारण्यम् ॥ ३ ॥