पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
कव्यमला।

स्वयमेव समीहन्ते गुणान्भव्याय भाविनः ।
प्रगुणाय प्ररोहाय करीराः केन शिक्षिताः ॥ ५६॥

इति श्रीहरिहरसुभाषिते बालविनयप्रकरणम् ॥२॥

सुचिरं सुखयति पुरुषं निपुणमधीतं वयःक्रमे प्रथमे ।
संतुष्यति कृषिकारः सत्समये साधुकृष्टकेदारः ॥ १ ॥

नाधीतं कैशोरे किमुपकरिष्यत्यनन्तरे वयसि ।
अङ्कुरनिहितकुठारः कतरो हि तरोः फलं लभते ॥ २ ॥

कुरु गुरुवचो निपीतं भूयो भूयो विचिन्तयाधीतम् । .
विद्या गुरूपदिष्टा चिरपरिमृष्टा विभूषणं विदुषः ॥ ३ ॥

यद्यप्यसि जडचेतास्तदपि न रे तात हेयमध्ययनम् । .
जङ्घाल एव शैलं न लङ्घते किं तु केऽपि गच्छन्तः ॥ ४ ॥

आत्मोपकारचतुरा नरा न गणयन्ति गुरुगृहक्लेशम् ।
वेधव्यथैव कियती श्रवसो ह्यवतंसभूषणीयस्य ॥ ५॥

क्व लघुः श्रियो विलासः क्व पुनर्विद्यारसोल्लासः ।
साक्ष्यं वदन्त्विदं च द्वितयेऽसिंस्तारतम्यसम्यञ्चः ॥ ६ ॥

उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम् ।
उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव ॥ ७ ॥

वरमेकैव निसृष्टा विद्येति ब्रूयुरल्पसंतुष्टाः ।
परिमितगुणपरितुष्टा न जात्वभीष्टोन्मुखाः पुरुषाः ।। ८ ॥

एकामधीत्य विद्यां बिभेति बहुविद्यपरिषदं प्राप्तः ।
क्वासन्नशस्त्रनिकरः कुत्रैकशरः पुनः पुरुषः ॥ ९ ॥

विद्या विनयोपेता हरति न चेतांसि कस्य मनुजस्य ।
मणिकाञ्चनसंयोगो जनयति लोकस्य लोचनानन्दम् ॥ १०॥

अपि निपुणतरमधीतं दुर्विनयारूढचेतसः पुंसः ।
मणिरिव फणिफणवर्ती प्रभवति शोकाय लोकानाम् ॥ ११ ॥