पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३]
११७
रतिपालशकसंवादः


अपवार्य सभास्वारान् भ्रातृमात्रद्वितीयकः ।
रतिपालं जगादैष विस्तार्याग्रे सिचोंचलं ॥ ७३ ॥

अल्लावदीन इत्याख्यः सोहं शककुलाधिपः ।
दुर्गाण्यनेकशो येन दुर्ग्राह्याण्यपि जिग्यिरे ॥ ७४ ॥

इदानीमस्वसात्कृत्वा यदि दुर्गं व्रजाम्यदः ।
ज्वलदग्न्युप्तवल्लीव तन्मे कीर्ति: कियच्चिरं ॥ ७५ ॥

स्वसात्कर्तुं बलेनैतत्सहस्राक्षोपि न क्षमः ।
परं भाग्यात् त्वमायासीः सिद्धमस्मत्समीहितं ॥ ७६ ॥

तद्यतस्व तथा तूर्णं यथा स्यां सत्यसंगरः ।
एतद्राज्यं तवैवास्तु जयेच्छुः केवलं त्वहं ॥ ७७ ॥

दुराचारो यदाचारो माया यत्सहचारिणी ।
अनृतं यत्पदं न्यासाः क्रोधो यत्पारिपार्श्वकः ॥ ७८ ॥

अत्रांतरे कलिर्नाम लोभं कृत्वा तमग्रतः ।
विविशे रतिपालस्य मनोदुर्गं सुदुर्ग्रहं ॥ ७९ ॥ युग्मं

रतिपालमनोदुर्गं बलाद्गृह्णस्तदा कलिः ।
शकुन्यभूच्छकेशस्य रणस्तंभं जिघृक्षतः ॥ ८० ॥

अंतरंतःपुरं नीत्वा शकेशस्तमभेजयत् ।
अपीप्यत्तद्भगिन्या च प्रतीत्यै मदिरामपि ॥ ८१ ॥

प्रतिश्रुत्य शकेशोक्तं ततः सर्वं स दुर्मतिः।
विरोधोद्बोधितीर्वाचो गत्वा राज्ञे न्यंरूपयत् ॥ ८२ ॥

देवाहंकारलंकेशो निजगाद शकेश्वरः ।
हम्मीरः किमयं मूढः पुत्रीं मे न प्रयच्छति ॥ ८३ ॥

यद्वा मादादसौ किं त्व--ल्लावदीनोस्मि नो तदा ।
पुत्रीमयच्छतोमुष्यं नाददे यदि वल्लभाः ।। ૮૪ ॥

किं जातं यद्यगुर्वीरा भूयांसोपि परासुतां ।
किं द्वित्रिपदभंगेपि खर्जूरो याति खंजतां ॥ ८५ ॥