इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहाकाव्ये वीरांके हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥
॥ अथ दशमः सर्गः ॥
धरणीरमणापमानना दथ भोजः सशिरोहमागतः ।
परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीत्यचिंतयत् ॥९॥
विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां ।
विदधे यदि तत्प्रतिक्रियां न तदा केव मनस्विनां गति: ॥२॥
गुणवानपि वक्रतां गतः पुरुषश्चाप इवातिभीषणः ।
स शरैरिव दुर्जनैर्यतो गुणमुक्तैस्तनुतेऽतिपीडनं ॥३॥
अपमानपरेपि यो नरे शममेव प्रयतोऽवलंबते ।
अपि शूकशिखा ततो वरं व्यथयत्पंघ्रिमसौ तदाऽहता ॥४॥
अपकारपरान्सहोदरान् अपि हन्यात्किल नास्ति पातकं ।
अभिमानवतां नयोन्मुखैः स्थितिरेषा जगदे सनातनी ॥५॥
सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं ।
सुहृदप्यपकारकृत् द्विष न्नुपकारीं तु सुहृद्विषन्नपि ॥६॥
सहतेऽरिकृतं पराभवं ननु यः क्लीबमना मनागपि ।
जनिरेव जनिष्ठ तस्य मा जननी यौवनगर्वगर्हिणी ॥७॥
परिपृच्छ्यं ततः सहोदरं पिथमं सन्मतिवासमंदिरं ।
अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥८॥
तादृक्कुलीनोपि तदा स भोज-देवोऽधुनाऽहिकृतवान्यदेवं ।
तन्म्लेंछभूजृंभितमेव तस्मात् सतां न तद्धूरपि वासयोग्यां ॥९॥
तत्समागमनहर्षवशात्मा ऽल्लावदीननृपतिः स ततोऽस्मै ।
वस्त्रनिर्वपणपूर्वमयच्छ न्मुद्गलेशनगरीं जगरां तां ॥१०॥
तत्र चित्ररूचिभाजि स भोज सोदरं स्वमदरं परिमुच्य ।
स्त्राग् स्वयं पुनरूपेत्य च दिल्लीं सेवतेस्म शकनायकमेव ॥११॥