सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः ।। ५५ कारं संस्थानं यस्य तन्मण्डलाकारसंस्थानम् । ताइक्स्थानं मण्डलाकार संस्थानस्थानम् । अत्र प्रवृत्तिनिरोधकाः तत्र प्रवृत्तेर्विरोधिका विरोधकारि ण्यस्तो प्रकृता रेखा एव । विशेषणच्छलेन फलमुक्तम् । तत्र ताव दान विशेषणेन बहुवर्णत्वेन भिन्नवर्णता भवतीति फलमुक्तम् । भिन्न ,वर्णत्वं नामैकस्मिञ्जन्मन्येव भिन्नवर्णता तस्य तद्वत पुरुषस्य स्यात् स्त्रिया वा । तथा द्वितीयेन विशेषणेनाङ्गस्य अर्जरता ? तृतीयेन शरीरमनसः प्रभृशः फलं सूचितम् । चतुर्थेन स्थानप्राप्तिनिरोधःप्राप्त ःथाननिरोधश्चे त्यवगन्तव्यम् । अत्रैवं विशेषोऽवगन्तव्यः - यदि छिलकारा च स्तर्हि बहुवर्णता फलम् । यदि घर्घराङ्गित्वं शाखान्तरसवे सति तदैव कलैयर जर्जरता फलम् । तृतीयमपि फलं पूर्वोक्ततनुरेखसन्निधिसत्वे सत्येव । चतुर्थमप्यङ्गुष्ठपार्श्वभागे तर्जन्या अधःपार्श्वभागे च इत्युभयमभ्ये मण्डला कारसंस्थानं यदि भवेत् तदैवेति । नाम शोभनराज्यस्य राज्ञ इयं प्रार्पण दृश्यते इत्यस्मात् कारणादिति !! ९२ ॥ धन्वनलक्षणमाह-- धघनी तर्जनीपार्श्व पर्वत्रयसमागतः। धाष्ट्रथमाशास्यमाशास्ते न' प्रगस्थे कथञ्चन ॥ ९३ ॥ तर्जनीपर्वत्रयगता तत्पार्श्वगामिनी रेखा धन्वनी नाम । सा आ- शास्यं बहुमाननीयं धाधुर्य वैयात्यमाशास्ते सूचयति । ननु धाधुर्यशाग ल्ययोरविनाभावो दृश्यते प्रायेण सर्वत्र । तदत्रापि धाधुर्ये सति प्राग ल्भ्यमपि तद्वत् स्यादिति चेन्नेत्याह -- नेति । प्रागल्भ्यं प्रगल्भतां प्रति- भावत्तामिति यावत् । कथञ्चन् न सूचयति । न केनचित् प्रकारेण किञ्चिदपि सूचयतीत्यर्थः । तदनेनास्यन्तावश्यकं विद्वदादियोग्यं सर्वयोग्यं च प्रतिभावत्वं न कथञ्चन स्यात् । सर्ववण् म् अन्यत्र युद्धादिभ्यो वैयात्यं सूचयति चेति विरुद्धफलदातृत्वमुक्तं, धन्वनीनाम्ना दारिद्रथं च। तत् कथमिति चेद् धन्वा मरुभूमिः, धन्वनी च तद्योगशील। अतो मरुभूमि योगशीलेत्युक्तम् । तेन च लक्षणया दारिद्रयमपि फलं सूचितमेव भवतीति मन्तव्यम् ॥ ९३ ॥