सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ सव्याख्ये स्कान्दशारीरके (इति ।) व्रतसंज्ञा रेखा कर्मसु सर्वेषु पुण्यपापादिषु मिथेषु च शिल्पादिषु भनन्दमपरिमेयं नैपुण्यं प्रयच्छति । किं तलक्षणमित्यत आह कुक्षिभागगतः नाभिदेशाचतुरङ्गुलं दूरं गत्वा ऊध्वदरदेशे गतः स्वयं गूढः वलिसम्बन्धादिति शेषः । सङ्करादिति वा (पाठ)?) एवंभूतो यो निम्नभागः स व्रतमित्युच्यते । व्रतसंज्ञा रेखेति यावत् । अत्र व्रतादिचरत्वमनया सम्पन्नस्य पुरुषस्य भवति इति नामतोऽर्थः । सच फलेऽन्तर्भवति ।। ४५ ॥ मदघूर्णा पाॐिणभागे प्रदेशाद्वलसन्तता । अस्याः प्रयत्नसञ्चारी विच्छिन्नः स्वजनैरपि ।। ४६ ॥ सा मदाघूर्ण या खलु पार्षिणभागे जयपर्यन्तं प्रादेशाङ्कलेन परिमाणेन परिमिता तत एव सन्तता अविच्छिन्ना । अस्याः फलं - प्रयत्नसारित्वं कर्मविशेषपरिज्ञानं फलपरिज्ञानं च विना प्रयत्नेन प्रवृत्तिः स्वजनैर्विच्छेदश्च अत्र फलद्वयम् । स्वैः पुत्रादिभिः लोकैश्च वर्जनम् । आत्मना तद्वर्जनं च इति वाक्यार्थः । नामतस्तु मदाघूर्णया मदपरचशया सह संसर्गः। मद सम्बन्धस्तु तस्या मदिरावशात् इति ॥ ४६ ॥ गतप्रज्ञा भक्ष्णमाह हस्तयोर्वङ्करोमत्वं वर्तुलाकारता तथा । कटकस्थानसञ्चारी गतप्रज्ञेति कथ्यते ॥ ४७ ॥ (इति ।) यस्य खलु बाह्वोर्बहूनि रोमाणि तथा वर्तुळाकारता च वृत्तखंहितत्वं च तस्य कटकस्थानसबरी कटकाख्याभरणविशेषो यत्र नि बध्यते तन्निवन्धस्थाने सधारी तत्र वर्तमान इति यावत् । यो निम्नभाग इति शेषः । सा गतप्रज्ञा । फलं तस्याः शास्त्राभ्यासादिना प्राप्तप्रज्ञस्य तद् भृश एव इति नामतः सिद्धं भवति इति पृथङ् नोच्यत इति भावः ।। ४७ ।। चवळालक्षणमाह अङ्गुलीषु नितान्ता या साम्लान्तमवापिता । केनाप्युत्तमयोगेन चञ्चला साधुवस्थितिः ॥ ४८ ॥ (इति ।) सा चञ्चला या केनाप्युत्तमेन योगेनाङ्गुलीषु पादाङ्गुली ष्विति यावत् । आमूलान्तं मूलादारभ्यान्तपर्यन्तमवापिता प्रापिता । अवे