२८ सव्याख्ये स्कान्दशारीरके नास्तीत्यर्थः । तस्या विभूतिभङ्गोऽनल्पः फळस्, अस्यास्तु न सा, प्रत्युत विभूतिरेव इति भावः । दोर्मलयोः रेखामात्रमपि शुभदम् । अथवा रेखा स्थानवर्णस्यापि शुभफलदायित्वम् । औन्नत्यादेश्च । तत्र काचिदुक्तप्रकारा वर्तेते मूले च वर्तेत तदुक्तं फलं भवेदिति वाक्यार्थः । पृथुः स्वतः पृथुतमा सर्वत एकरूपा | श्यामाकारा श्यामवर्णा । अनेन विशेषणद्वयेन सङ्गतायाः स्वरूपकीर्तनम् ॥ ३१ ॥ बाहुमध्यगतो योऽयं सन्धिः सन्धानभङ्करः। तदन्तर्वर्तिनी काचिद् रेखा सा वारिणी मता ॥ ३२ ॥ (इति।) सर्वेषां हि प्रत्यक्षभूतः स्थूलतमः कश्चित् सन्धिः बाहुमध्य गता विद्यते । तत्र या रेखा अविच्छिन्नवर्तिनी दृश्यते सा वारिणी नाम ॥ ३२ ॥ तस्याः फलमुच्यते वज़ानुकारी सततं प्रस्फुटन्नुक्तमूर्धजः । युद्धे जहाति सर्वांस्तान स्वप्राणानरिसन्निधौ ॥ ३३॥ इति । अयमसौ बारिणीसक्तः पुरुषः अरिसन्निधौ सर्वांस्तान् स्वार्छन् जहाति । सर्वास्यजति । सर्वानित्यनेन स्वसम्बन्धिनामपीति लक्ष्यते । प्र स्फुटमुक्तमूर्धजः प्रस्फुटन्तः मुक्ताश्च मूर्धजाः केशाः यस्येति विग्रहः । अनेन तलक्षणमुक्तम् । यः प्रस्फुटमुक्तमूर्धजो युद्धे चरति सोऽनया सङ्गतः पुरुष इति । तथागतं ज्ञात्वनेन लक्षणेन भूपादिभिस्तत्रेरणाय प्रेरितव्यमिति सिद्धस् ॥ ३३ ॥ रोधिह्लक्षणमाह यस्यास्ति करसंसर्गे स्फोटः स्वेदश्च युद्धगः । सर्वानपि निरोद्धुं स प्रयतेत न संशयैः॥ ३४ ॥ इति । रोधिकाफलम् । यस्य खलु पाणिभ्यां परस्परसंसर्गे स्फोट प्रस्वेदश्च स युद्धगः युद्धभूमिं गतः सवन्नरान् स्वसहायभूतानपि निरोधं शठं प्रतिगन्तुं प्रवृत्तानिति शेषः । प्रयतेत प्रयत्नं करोति । स्वयमतिशयेन भीत इत्यर्थः । पाणिभ्यां संसर्ग आमीयाभ्याम् । आत्मीयान्यदीयाभ्यां वा । अनेन रोचिकावतः पुरुषस्यैतद्युक्षणमुक्तम् ॥ ३४ ॥ १. ‘त च मू ' घ. पाठः२, ३• 'Fत्रान् ', ४ 'न' ग, घ. पाठः ५. ‘थः । य' घ. पाठः.
पृष्ठम्:स्कान्दशारीरकः.pdf/५६
दिखावट