सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । २७ महादेव्या लक्षणमाह या हारस्थानरेखासु प्रोन्मुखी परिवर्तते। अमया कान्तिमाप्नोति पुरुषः पुष्कलां ध्रुवम् ॥ २९॥ (इति ) अस्ति खलु महात्मनां पुरुषाणां हारस्थानरेखासु या हारस्थाने रेखाः प्रसिद्धा वक्ष्यमाणलक्षणाः तासु प्रोन्मुखी प्रकर्षेणोध्र्चमुखी परिवर्तते परितः सर्वतो वर्तते । ऊर्धर्वमुखत्वज्ञाने कारणं सूच्यग्रवदूर्वभागस्य तनुत । एषा कान्तिं फलं विदधाति । तत्रापि न तन्मात्रम् , अपितु पुष्कलां सक लोमङ्गोपाङ्गोपेताम् । तत्राङ्गान्यलङ्काराः उपाङ्गानि भूषणानीति विभागः । न पुनरेतावत्वम् । किन्तु ध्रुवां नियामचञ्चलामिति यावत् । बाल्यादारभ्या थवा जन्मनः प्रभृति यावन्मृतिपर्यन्तं गच्छतीति वाक्यार्थः ॥ २९ ॥ योगिनीलक्षणमुच्यते हृदये वर्तुलकरा रक्तवर्णा क्कचित् क्षत । रेखा महसु विज्ञता योग शलस्वदायिनी ॥ ३० ॥ (इति ।) महसु प्रसिद्धमहत्पु सनकादिषु अस्तीति प्रसिद्ध पुराणा दिषु । या इदये वर्तुलाकारा वर्तुल आकारो यस्यः। आकारोऽङ्गविन्यासः । रक्तवर्णं रक्तो वर्णाऽस्याः नान्यः कश्चित् । कचित् क्षता विच्छिन्ना । असौ योगशीलत्वदायिनी स्वाश्रयस्य पुरुषस्य स्त्रिया वा योगशीलत्वं योगाभ्यास शीलत्वं ददाति । इत्ययमस्याः स्वभावः ॥ ३० ॥ रुक्ममालिकाया लक्षणमाह दोर्गुलयोः पश्चसन्धिनिम्ना नैवात्र सङ्गता । श्यामाकारा पृथुः स्वर्णाकारा तु तलमूलतः ॥ ३१ ॥ (इति) मूलतः स्वर्णाकारा मूले काञ्चनप्रभा काञ्चनरेखा दोनॅलयो र्वर्तेत । असौ च पञ्चसन्धिनिम्ना पवसङ्कयाकेषु सन्धिषु पञ्चस्थानेष्विति यावत् । तर्हि सा नैवात्र सङ्गता । सङ्गता नाम काचिद्रेखा । तस्याः फलमत्र । • ‘न्ति' स्ख., 'पिंत वि' ध. पाठः २. ‘लङ्ग’ क. ध. पाठः. ३. ‘स्याः वर्तुलाया आकार इवाकारो यस्याः । आ' इ. ख. ग. पा5ः. ४. ‘णं यस्याः, ५. 'वं च द' क. पाठः. १. 'सौ प' घ. पाठः,