सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ सव्याख्ये स्कान्दशाररिके अस्याः फलमाह प्रवृत्तिनिमित्तं च द्योतयन् संज्ञायाः मदिरामधुमत्तः स्यात् परशक्तिरतः स्वयम् । ऊध्वपुण्ड्प्रदाता च स्वयमाचारतत्परः ॥ २६ ॥ इति । मदिरामधुमत्तः मदिराख्येन मधुना मत्तः दृप्तः निर्दुश स्वभावतया तेन दर्पवान् । परशक्तिरतः केवलं शक्तिरत इत्यर्थः । ऊध्र्व पुण्ड्प्रदाता च सर्वेषामूर्ध्वपुण्ड्रोपदेष्टा स्यात् । भस्मनेति शेषः । स्वयमा चारतत्परश्च स्वयमाचारः शक्तिमार्गविहित आचारः । तत्परः तदनुष्ठानपर इत्यर्थः ॥ २६ ॥ रुक्मकष्ठिकायाः फलं लक्षणं चाह व्यावृत्तनेत्रः प्रांशुः स्याद् यत्रैव च मरुत्स्थितिः । पादयोर्निम्नदेशस्था प्रादेशाङ्गुलिमूर्ध्वगा २७ ॥ ॥ इति । व्यावृत्तनेत्रः नेत्रविषयत्वेन प्राप्तेभ्यः सर्वेभ्य इति शेषः । प्रशुः प्राङ्मुखी दृष्टिर्यस्य स प्रांशुः । कुत्र प्रांशुत्वमित्यपेक्षायामाहयत्र मरुत्थितिरिति । यत्र मरुतां वायूनां स्थितिस्तत्रेत्यर्थः । एतत् फलम् । पादयोर्निनदेशस्था यो यो निन्नो देशः पादयोस्तत्र तत्र स्थिता । भाविनी प्रादेशाञ्जलिम् । भाविनी भावयन्तीत्यर्थः । प्रादेशस्य सम्बन्धी(नी) या अङ्गुलिः प्रदेशाञ्जलिः । प्रादेशो नाम हस्तचतुर्यो भागः तां भावयन्तीति यावत् । भाविनीत्यध्याहारः । व्यवहितदनुषङ्गो वा । ऊध्र्वगा ऊर्ध्वमुखी त्यर्थः । तदनेन रेखाया ऊर्ध्वभागस्य पृथुत्वमुक्तम् । नाम च रूढ्या ॥२७॥ मधुव्रता कण्ठगता परीता इयामतः स्वयम् । आचारसौष्ठवं तत्र विदधाति न संशयः ॥ २८ ॥ या खलु कण्ठगता श्यामतः श्यामवर्णेन परीता व्याप्ता कण्ठे च व्यासेत्यर्थात् सिच्यति । तदनेनैतदुक्कुं या कण्ठे सर्वत्र व्याप्ता श्यामवर्णा प्रसरति सैषा मधुव्रता नाम । अस्याः फङ –तत्र तस्मिन् पुरुषे सौष्ठव मकसौन्दर्यविज्ञानशिल्पादिसैौन्दर्यमेतत् सर्वमपि विदधातीति भावः । मधै व्रतसंज्ञया श्यामवर्णत्वं द्योतितस् ॥ २८ ॥ १. 'तात' श. ग• ध. पाठः२. 'सी’ ग. ध. पाठः,