२९ सव्याख्ये स्कान्दशारीरके तदन्तर्वर्तनी भूयो व्याप्य पर्यन्तयोर्दयोः । तिष्ठन्ती सा धनिष्ठ। स्यालक्ष्मीसम्थत्करीं विदुः॥१९॥ या पुनस्तदन्तर्वर्तनी तदन्तर्भगदेशवर्तनी तदन्तर्भगदेश एव वर्तनी माग यस्या इति विग्रहः । अन्तःशब्देन तदूर्वभाग एवोच्यते । ललाटमध्यप्रदेशत्वात् तप्रयोगः । मध्यविषयश्चन्तःशब्दो दृश्यते । भाग देशशब्दौ त्वेकदेशविषयतया योज्यौ । तदनेनैतदुक्तं भवति –या ललाट मध्यगा पर्यन्तयोर्दूयोर्भागयोर्यावद् गत्वा मध्येऽविच्छेदेन तिष्ठति सा धनिष्ठा नाम । अस्याः फलं विभूतिः संपत्समृद्धयादि । इति ॥ १९ ॥ कम्बुरेखालक्षणमाह-- कण्ठनालं गता या तु कम्ब्वाकारा तु मूलतः । सैच कम्बुरिति प्रोक्ता तदूर्वेस्था तु कारणम् ॥२०॥ चतुर्थेन पादेन कारणरेखायाः । अयमनयोरर्थः- या खलु कण्ठ- नालं गता कण्ठमूलादारभ्य कण्ठमध्यस्थायाः सिरायाः सान्निधिं यावद् वर्तते सा वृत्ततः कम्ब्वाकारा नाम । मूलतस्तु कम्ब्वाकारा नायामतश्चसा कवुरिति प्रोक्ता । तदूर्ध्वदेशस्था कण्ठमध्यभागगता न उपरि वर्तमाना कारणसंज्ञा इति ॥ २० ॥ अनयोः फलम् । अव्यक्तिर्याचदेतस्या जीवमाप्नोति पुष्करम्। शुणित्वं च भवेदस्थः क्षयं यावन्मनषिणाम् ॥२१ ॥ अस्यार्थः-- एतस्याः प्रकृतायाः कम्बुरेखाया यावन्तं कालं गत्वा अव्यक्तिः, तावन्तं कालं तद्वानसौ नरो जीवमाप्नोति न जीवविच्छिन्नो भ- बति, प्राणवानिति यावत् । इति कञ्चरेखाफलम् । अस्याः कारणभूताया यावत् क्षयो भवति, तावन्मनीषिणां गुणित्वं वर्तते अविच्छिन्नं भवति । उत्तरकालं तु विच्छिन्नं भवेदिति कारणरेखाफलम् । मनीषिणामित्यनेनैत दाह -- मनीषिणामेव विदुषामेवैषा सम्भवति नान्येषाम् । अतश्च विदुषा मेष लक्षणमिति ॥ २१ ॥ १. 'पृतन्ततः' ख., ‘वृतत्तत' ग. पाठ . २, ‘ष’ क. पाठः
पृष्ठम्:स्कान्दशारीरकः.pdf/५२
दिखावट