सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः । १७ न सर्वेषां तटस्थत, किन्तु समयासिद्धानमेव । कोऽपं समयः i यस्तेन संक्लन्नः । स द्विविधः । तत्कालिको नित्यश्च । तत्र तात्कालिकः – यदाकदाचिद् यंकञ्चिद् यैःकश्चित् पृच्छति यकिञ्विदात्मानं प्रति वा स तात्कालिकः । स च देशविशेचायतः । देशश्चन्मना सङ्कल्पितः । अन्यथा सः, यो नियमेनात्मनाधिष्ठिते देशे यःकश्चिदागत्य पृच्छति, तत्र तं प्रति वदनाय कल्पितः । पुनरपि द्विविधः । एकार्धशरपातं जङ्गमानां तटस्थता- कल्पने देशं परिकस्य तत्र तदन्तर्गतानां तटस्थतामवधारयेत् । जङ्गमाश्चात्र मनुष्याः मनुष्यविषयत्वात् प्रश्नस्य । यदि जङ्गमविषयत्वं प्रश्नस्य, ततः जङ्गमानामपि तटस्थता । कचित् पुनर्मनुष्यविषयेऽपि जङ्गमानां तटस्थता जङ्गममात्रविषये च मनुष्याणाम् । क्वचित् स्थावराणामपि प्राणभाजां वृक्षादीनाम्। कचिदें भित्यादीनामपि । शरपातश्च द्विविधः । धनुषः प्रयु क्तस्य शरस्य पातः स एकाधं शरमात्रस्य च पातः सोऽप्येकार्थ इति । तत्रायुञ्जते तावत् शरमात्रस्य पात इत्यवधारणीये म् । तत्रापि स्थावराणां तटस्थत्वे वीरेण धनुषः प्रयुक्तस्य शरपातः । इति । जन्मनि तु पृष्ठे पक्ष्या दीनामपि तटस्थता । एवं तटस्थसहः। प्रेक्ष्यश्च सः । ः व्याधितो वा कार्यगामी पुत्री वा यद्यदिच्छन् ज्ञातुं शुद्धान्तःकरणः परिपकमानसः पश्च तापादिर्ना हृदयगतसकलचिन्तनीयवस्तुसर्वस्वः स्वाकारेङ्गितादिव्यञ्जितः तत्तद्भावः दैवज्ञदर्शनसमुत्सुकहृदयः मार्गे तत्तद्विषये तं पृच्छन् क्रमाद् दैवज्ञमन्दिरमभ्यागतः तत्र च तं दृष्ट्वा प्रसन्नहृदयस्ततो हर्षितनिजपरिवारः स्वयं च प्रसन्नदृष्टिः । स एवम्भूतः प्रेक्ष्यो नाम नच न इत्यविवादसिद्धम्। तत्र भागा अवगन्तव्याः – यत्र स तिष्ठति तस्य ज्ञेयत्वाद् दश दिशः उ- ततो निन्नऽ इति । तत्र यद्येकस्मिन् भागे क्षणमात्रं स्थितिं विना सञ्च रति प्रेक्ष्यः, तचैकं लक्षणमिति पृथगवगन्तव्यम् । तस्य च फलं यस्तद्विधयः तस्य चञ्चलतं । यदि प्रेक्ष्यापेक्षया कश्चित् पृच्छक आगच्छति तत्रापीयमेव वार्ता । विशेषेस्तु समीरणसमीक्षाप्रधानेन कविना समाहितेन तत्र वक्तव्यं फलजातम् । लक्षणान्तराणि तु तत्रोपकरणभूतानि । इति ॥ १. 'ता तावत् कि ’, २. "प्तः सः । स ' ग. पाठः. ३. यः पु' क. ख. च, प|ठः. ४. 'दादिभ्याद। , ५. 'यः' घ. पाठः६. 'sांतरे’ क. ध. पाठः७. 'यश्वव्या', ८. 'ना सकलकथनवि', ९. ‘गें तद्वैि' , १०, 'ता । प्रे', ११. 'षः किन्तु समीक्षा' ग. पाठt.