सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ सव्याख्ये स्कान्दशारीरके अस्यार्थः - पञ्चप्रकारो हि वर्णाः सकलशरीरे विनिवर्यंते निषि ध्यते । कुतः, अस्पायुष्वापादकत्वात् ॥ ४९ ॥ • रेखानुरूपतास्य स्यान्नियभश्च तदान्तिके ॥ ५० ॥ अस्य वर्णस्य रेखानुरूपता स्यात्, रेखानुरूप्यं भवतु । ताश्च निय तवर्णः। अतस्तदन्तिके वर्णस्यापि नियमः। अतो वर्णा रेखानुरूपः प्रमाणं रेखासहकारी च नान्यः । रेखाश्च त्रिवर्णश्चतुर्वणी एकवर्णा द्विवर्ण वा। ततब यस्या यस्या रेखया यो यो वणों विहितः स स युक्तो नान्यः । रेखाणां च सर्वासां सामर्थ्येऽपि न पश्यवर्णता । यदि पञ्चवर्णता, तर्हि मरणमावेदयन्ति मरणसंख्ये वत्सरे इति = ५० ॥ अधुना प्रत्ययाय लग्नं वक्तुमुपायमाह-- यत्र स्थित्वा स्वयं पृच्छेत् खयं प्रेक्ष्य इत्यर्थः दूतो वा ॥ सोऽयं लग्न उदाहृतः । यदि वा यत्र तद्दृष्टि सोऽयं लग्न उदाहृतः ॥ ५१ ॥ स्त्रस्य प्रेक्षक दृष्टिपातेन सह तद्बहिः तस्य प्रेक्ष्यस्य दूतस्य वा इञ्चिरित्यर्थः । किञ्च यस्तदा प्रक्षानन्तरं विशिष्टः पुरुष आगच्छति, तं प्रति तजक्षत्रं वा तदस्य नक्षत्रमित्युदीरयेत् । यदि वा, तदा यो वर्णा दृश्यते ततः पूर्वमदृष्टस्तथळे खागमनसमये मार्गे दृष्टश्चमना तद्व्रण यो राशिः सोऽयं लुप्त उदाहृतः । तत्रैव च स्थले ये वर्णा यस्यां यस्यां दिशि स्थि तास्तैः शुभाशुभग्रहाणां स्थितिरवगन्तव्या । यदि वा, शरीरं सप्तधा कृत्वा पुनीदशधा कृत्वा तस्य नक्षत्रे यदंशे तिष्ठति गणने सति, तदज्ञाने स शति वा कथिते सति, स लग्न उदाहृतः। नवधा कृत्वा यत्र स्पृशति यद्ध र्भय, तद्धर्मस्य ग्रहस्य तत्र स्थितिः इति ज्ञात्वा पुनरन्पविज्ञानमपि ल• भेत । अंशकाविज्ञप्तिस्तु तत्रैव देशविशेषस्थितिविज्ञानवशादवगन्तव्येति ॥ तस्माद् यद्द्यिनिष्टप्राप्तिपरिहारयोरुपायज्ञानं विनाशक्यत्वात् तज्ज्ञापनाय रेखा दिलक्षणानां कथनेऽस्माभिर्यत्नः क्रियत इत्युक्तं, तदिदानीं सिद्धमित्युपसंहरति रेत्राणां विविधानां या देहस्थितिरनन्तरा । प्रकाशिता विधात्रा सा अस्माभिः काथिता भृशम् ॥ ५२ ॥