सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ सम्यास्ये स्कान्दशारीरके दीपसन्धुक्षिताकाशदर्शनं वह्निदर्शनम् । विशिष्टविग्रदृष्टिश्च राज्ञो दशनमुच्यते ॥ ३५ ॥ बासे मार्जारसन्हष्टिः पृष्ठे च सुतदर्शनम् ॥ ३६ ॥ श्रुतं कासः । दर्शनं भवणं, दर्शनं चेन्न कार्यसिद्धिः । पृष्ठेऽपि बिशेः कोण इति वक्तव्यम् ॥ ३६ ॥ गजानां दर्शनं चापि गाजिनीनामशोभनम् । वीराणां चापि सन्दृष्टिर्धनस्यापि निदर्शनम् ॥ ३७ ॥ प्रत्यायनमित्यर्थः ।। ३७ ॥ मिथुनस्यापि सन्दृष्टि प्रत्यक्षे च ॐधा गतिः। न्यत्वं कथयेत् तेषां फलानामिति शंसनम् ॥ ३८ ॥ एतानि प्रेक्ष्यश्रेधकतटस्थानां लक्षणानि कार्यविषये ।। ३८ ॥ अयं तु नियमः - उज्ज्वलं वस्तु दृश्येत तत्रैव नियमो भवेत् । विपरीतस्य सन्दृष्टे न कार्यंलमिरिष्यते ॥ ३९ ॥ उज्ज्वलं वस्तु कान्तिभद्रं वस्तु । कार्यविषारे धकेन यते, तथैव तस्य कार्यस्य नियमो भवेत् । विपरीतस्य सन्तौ अनुज्ज्वलवस्तु सन्दर्यं न कार्यसिद्धिर्निपेतव्या, विपरीतसिद्धिरेव निश्चेतव्या । एवं विपरीतलक्षणान्ययुक्तानि ॥ ३९ ॥ किञ्च यात्राविषये तान्याह यात्रायां पृच्छयमनायां तस्याः कार्योन्मुखत्वतः । उक्तान्येव भवन्त्यत्र नान्यानि प्रकृतिं ययुः ॥ ४० ॥ यात्रायाः कार्योन्मुखत्वात् तलक्षणान्येव, तचक्षणानि । नान्यानि प्रकृतिं स्वभावं प्राप्नुयुः । ययुरियस्व यायुरित्यर्थः ॥ ४० ॥ किञ्च मरणविषये स्वाप्नानि लक्षणान्युच्यन्ते शैवलिङ्गविभेदस्तु स्वाप्नः स्वसृतिमावहेत् । अस्यार्थः--यदि ज्ञाप्त मैगलितविभेदः स्यात्, तर्हि सः स्वगृति मावहेत् , स्वस्य आत्मन इष्टस्यात्मीयस्य वा सृतिं योतयति ॥ १. ‘क्षुधा' क.‘मुदा’ ख. ग. पाठः