सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः। २२५ कि वसुदृष्टिस्त्रिभिर्वास्यात् कृता तत्र न संशयः मरणं स्यात् तु गर्भिण्या वस्तुनस्तु न चास्ति तत् ॥३१॥ यदि भैक्ष्येण प्रेक्षकेण तटस्थेन वा धनदृष्टिस्तदा कृता स्यात् तदा मरणं गर्भिण्याः । वस्तुनस्तु तन्मरणं न ।। ३१ ॥ किञ्च छेद स्थाचरसंज्ञानां सरणं दीपयेद् ध्रुवम् । यदि स्थावरसंज्ञानां प्रश्नसमये छेदो भवेत् तदा तस्य वस्तुनो मरणं विषादिति ॥ स्वस्थता यदि धीस्थानां तदा स्यचिरसंस्थितिः ॥ ३२ ॥ धीस्थानां बुद्धिस्थितानां प्रेक्षकस्य पुत्रादीनां यदि स्वस्थता तर्हि गर्भिण्यास्तदन्तर्गतवस्तुनश्च चिरस्थितिमीरयेत् ॥ ३२ ॥ धेनुदश यदि भवेत् तदापि स्यान्न संशयः। यदि धेनोः पशोः दशं दर्शनं भवेत् तत्रापि सा भवेत् सा चिर स्थितिर्भवेदित्यर्थः । किञ्च – दैवजेन फले पृष्ठे वक्तव्यं तद् विशेषतः। अन्यथा हानिरेव स्यात् तत्र मानं स्वयंप्रभा ॥ ३३ ॥ येन केनचित् पृष्ठे फले दैवजेन तद् वक्तव्यं विशेषतः, इदं भवति इदं न भवतीति वा, अमिन् काले भवति अस्मिन् काले न भवतीति वा, एतत् सफलमेतदफलमिति च, इदमिदानीं कार्यमिदमिदानीं न कार्यमिति च । अन्यथा हानिः स्यात् , लोकप्रच्युतिः स्यादित्यर्थः । तत्र मानं कि मिति चेत् सर्वत्राप्रतिहतं सर्वविषयगा(मी १ मि)च तदाह – स्वयंप्रभेति । खस्य आत्मनो दैवज्ञस्य नित्यसिद्धपरमेश्वराणान्निध्यवशात् समुन्मिषति प्रतिभा इति ॥ ३३ ॥ जन्मविषये लक्षणान्युक्स्य तवथादिगतानि सम्प्रति कार्यविषये तान्याह- पूर्णकुम्भश्चन्द्रदृष्टिश्चकोरस्य च दर्शनम् । कृकलासस्य सन्दृष्टिमालिन्या अपि दर्शनम् ॥ ३४ ॥ 2a