लक्षणानि प्रोक्तानि प्रेक्ष्ये यानि गतानि तु । वैपरीत्येन तान्यत्र जनयेयुः परां विदम् ॥ २२ ॥ यानि पुनः प्रेक्ष्यगतानि लक्षणानि पुरोक्तानि तान्यत्र प्रेक्षकेऽपि वैपरीत्येन नीतानि वैपरीत्यं प्राप्तानि परां विदं तत्तदनुरूपं विज्ञानं जनयेयु रिति । एतदुक्तं भवति - प्रेक्ष्यस्य दक्षिणभागगताः प्रेक्षकस्य वामभाग- गताः । प्रेक्ष्यस्य वामभागगताः प्रेक्षकस्य दक्षिणभागगताः नेयाः । तत स्तथा फलसम्बन्ध इत्यवगन्तव्यम् ॥ २२ ॥ एवं प्रेक्षकलक्षणान्युक्त्वा तटस्थलक्षणान्याह -- आकाशहस्तः साक्षी चेन्मरणं तत्र विन्दति । आत्महस्तः स चेत् स्यात् तत्संशयो भवाति ध्रुवम् ॥ साक्षी तटस्थः आकाशहस्तः पुनरतो यदि भवेत् मरणं तत्र प्रथा विन्दति । यद्यमहस्तः तत्र न ॥ २३ ॥ किञ्च-- ऊर्वं पश्यति साक्षी चेदाग्निस्थश्चेदपि ध्रुवम् । दक्षिणस्थस्तथा पृच्छेत् त्रयं मरणकारणम् ।। २४ ॥ साक्षी ऊर्वं पश्यति चेदूर्वदिगभीक्षणं करोति चेद् अभिस्य दाक्षणादक्स्थत् तटस्थः तदेतत् त्रयं मरणसूचकमित्यवगन्तव्यम्॥ २४॥ जीवद्वस्तुविनिभेदः स्थावरस्यापि कृन्तनम् । यदि जीवद्वस्तुविनिर्मेदं करोति तटस्थः स्थावरकृन्तनं च तदुभयं मरणलक्षणम् ॥ किञ्च-- रोमोत्खातस्तथा प्रष्टुस्तटस्थस्यापि लक्षणम् ! । २५ ॥ तटस्थस्य प्रमुखं रोमोत्खातः ळक्षणं मरणळक्षणम् ॥ २५ ॥ एवं प्रेक्ष्यस्य प्रेक्षकस्य तटस्थस्य च मरणलक्षणानि तत्सम्बन्धीयुतानि । अत्रान्तरे लाग्छनान्युच्यन्ते । तथाहि से फले स्वयं धात्रा प्रत्ययाय प्रकल्पितम् । उक्ते तु कथने चास्य विश्वासाय वदेदू बुधः ॥ २६ ॥
पृष्ठम्:स्कान्दशारीरकः.pdf/२५१
दिखावट