३१३ सव्याख्ये:कान्दशरीरके पादंस्थेन च हस्तस्थान्न च स्यादिति निश्चितः । यदि पादस्थेन केनचिद् वस्तुना हस्तस्थाद् वा कस्माचिद् व स्तुनः, तर्हि न स्यात् नैव स्यादिति निश्चयः । एवमेव प्रेक्ष्यचेष्टा अन्या अपि विनिर्दिशेद् । औचित्येन समीक्ष्याथो धीमानूहपरायणः ॥ २० ॥ एवमेवान्या अपि प्रेक्ष्यचेष्टाः प्रेक्षणदशावर्तिनीः श्रीमान् सम्यगौ चित्येन निरीक्ष्य ऊहपरायणः फलानि वदेत् । अयमर्थः - मरणेषु प्रश्न विषयेषु तेजोभागो विरुद्धः बाधक आयुषः प्रष्टव्यस्य । अतस्ता गथाः सवष्टा विरुद्धाः बाधिका आयुषः तेजोभागश्च दक्षिणः ऊध्र्व भागश्च । वामस्त्वनुगुणः । स च सोमभागः । तत्स्थास्तु चेष्टाः सर्वा अस्यायुधपरिपोषिकाः। अतस्त न विरुद्धा अधोभागस्थिताश्च । किञ्च यानि वस्तूनि दर्शने सत्यशुभावहानि तद्दर्शनानि तच्चेष्टाश्चायुर्भङ्गसूचकानि । यानि तदन्यानि शुभावहानि तद्दर्शनानि चेष्टाश्च नायुर्मङ्गसूचकानि । किञ्च-सत्तायां पृच्छद्यमानायां तदनुरूपा चेष्टा तां साधयति । अननु रूपा तां नाशयति । अवेक्षानवेक्षाविषयश्च पादयोर्निष्क्षेपेण ज्ञातुं शक्यते । इष्टं प्रष्टुमुपक्रमे दक्षिणं पुरतो निक्षिपति । अनिष्टं प्रथुसुपक्रमे वाम मिति ॥ २० ॥ एवं प्रेक्ष्यलक्षणान्युक्त्वा सम्प्रति प्रेक्षकलक्षणन्याई यद्वस्थः स्वयं तां तामवस्थां समुदीरयेत् । अॅस्पार्थः-ः स्वयं प्रेक्षकः सुखी चेत् तदा सुखावस्थां समुदी रयेत् प्रथे कृते पश्चात् फलत्वेन । यदि दुःखी तर्हि दुःखवस्थां ससु दीरयेत् । यच नृक्कं तदेवास्य बहूदिति विनिश्चितिः ॥ २१ ॥ यथात्मना प्रेक्षकेण भुक्तमुपभुक्तं तस्मिन् दिवसे ततोऽन्यादिवसे च तंद्दस्स वदेत् । किमर्थमिति चेद् विनिश्चितिः यस्मादेवं विनिश्चिति विंशसो भवेत् तस्मादित्यर्थः । इदमत्र तापर्यं - यदात्मना विशिोष भोगयोग्यं वस्तु उपभुक्तं तदस्मै प्रेक्ष्याय त्वयास्मिनइनि अतीते दिवसे वोषसुक्तमिति वदेत् । नात्र संशयकारणमस्ति ॥ २१ ॥
पृष्ठम्:स्कान्दशारीरकः.pdf/२५०
दिखावट