सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० सव्याख्ये स्कान्दशारीरके प्रेक्ष्यत्वं झटिति व्रजेद् । शैटितीत्यस्य झटितीत्येवार्थः । पदद्वयमतिशयद्योतनार्थम् । तत्रापि मरणं विद्यादिति शेषः । जरठा दृश्यते पृष्ठे मरणं संशयाद् वदेत् ॥ ११ ॥ जरठाकृतिः स्त्री, सा यदि दृश्यते पृष्ठे, तत्र संशयेन मरणमादि शेत् ॥ ११ ॥ कं उपदेशो यदि भवेन्मध्ये कस्यचन ध्रुवम् । यदि प्रेक्षणदशायां मध्ये पृष्टमर्थं कस्यचन सम्बन्धिनः कस्मै चने त्यर्थः तत्रापि ध्रुवं मरणम् ॥ वदन्ति चेद् भीषिकया केचित् तत्र च पृच्छति । दैवज्ञान् तदपि प्रोक्तं मरणं नात्र संशयः ॥ १२ ॥ अस्यार्थः-- केचिद् भीषिकया, भियोऽनुकारो भीषिका तया, केचिद् वदन्ति त्वमल्पायुरियादि तदा यदि दैवज्ञान् पृच्छति प्रेक्ष्यः, तत्र मरणमादिशेत् ॥ १२ ॥ कि बद्धहस्तस्तु पृष्ठे तं निक्षिप्य यदि पृच्छति । परेण वापरेणास्य मरणं समुदीरयेत् ॥ १३ ॥ पूर्वं बद्धहस्तं घर्डं हस्तं पूर्वेण परेण वा ऊध्र्वदिशा वा अधो दिशा वा द्वारेण यदि पृष्ठतो निक्षिपेत् तदैव यदि पृच्छति ततः संयम मादिशेत् ॥ १३ ॥ किञ्च परोक्तमर्थं निध्यायन् भेदं चापि फलं वदन् । मरणायैव स भवेत् सद्यो नात्र विचार्यता ॥ १४ ॥ अस्यार्थः-- यदि परोक्तमर्थं निध्यायन् परेण केनचित् कस्मि धिदथै उक्ते तं निध्यायन् च वदन् यदि पृच्छति व्याकुलहृदयतया फलं १. 'भुञ्जानो झटि' घ, छ, पाठः