सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्भवति । तद् यथा- यदि साधाद् राजमहिषी न भवति राजपुरुषे वा न भवति, तर्हि राजपुरुषमहिषी राज्ञः पुरुषो वा भवितुं युज्पते । एवमपि समुत्कर्षेऽवश्यं भवत्येव । एवं चैवमवधारणीयं - यथाकथा- ञ्चिद् येन केनापि प्रकारेण यस्मात् कस्माचित् प्रायशः समुदा याचोक भवत्येव यरि बाहुमूले समुन्नतिरिति । यद्येवमुन्नतिर्नास्ति तर्हि नीचतैव परिशिष्यते । तर्हि तदाश्रयस्य नीचतापि उक्तप्रतिकूलयुक्तमि रनुसन्धेया। तथाहि दृश्यते लोके । निम्नबाहुमूढाः स्त्रियः पुरुषाश्च निमर्म दुर्गतदन्दह्यमानहृदया दृश्यतेतच्च समुकर्षे सति न भवतीति । तस्मा- नीचषाहुश्लानामनुकर्ष एवेति स्थिर । ननु बाहुमूलठूयसाधारणमिदं लक्षणं किं वा नेति विवक्षायामाह – इति साधारण स्थितिरिति । इति एवम्भकरा अस्माभिरुक्तेयं स्थितिः नियमः । धारणी उभयबाहुमूल साधारण श्रीपुरुषसधरणी च, न पृथग् लक्षणमिति भावः ॥ २७ ॥ सन्धि २धादृ वेदे दक्षिणस्य प्रयो मताः । विकाराः स्फ ऍतत्रादिनिभातैवरतोदिता ॥ २८ ॥ एवं षाहुद्वयमूलस्य साधारणं लक्षणमुक्त्वा सम्प्रति विभागेन बाहोर्लक्ष्णं भक्तुकामः प्रथमं तावद् दक्षिणबाहुलश्चणमाह अनेन । दक्षिणस्य बाहोः सन्धिबन्धान्मध्यगतसन्धेरुर्वेदेशे त्रयो विकारा मताः । कीदग्विधास्ते, तदाह- स्वर्णताम्रादिनिभा इति । एक स्वर्णनिभः अपरस्ताम्रनिभः । अन्यो रजतानिभः । किमेतैः फलमित्याकाङ्कयामाह तैरेतैवरतोदिता इति ।) वीरता भवति फलम् । नन्वत्रैकेनैव विकारेणैतत् फलं भवति । किं वा विकाराणां त्रयेण। उच्यते । विकारत्रयेणैतत् फलं भवति । आभासतस्तु एकेनैव फलं भविष्यति । फलस्य भासत मसाकल्यम् । अत्र च नैते रेखापाःकिन्तु वर्णविकार एवेव गन्तव्यम् ॥ २८ ॥ इदानीं भैरूपाणां लक्षणमह~ रेखारूपास्त्रयः प्रोक्ता अविच्छेदेन सङ्गताः। वृत्तमप्यनुरुन्धनास्तैः प्रशस्तो भवेन्नरः ॥ २९ ॥ १. 'ज' घ, पादः