सप्तमोऽध्यायः । २०१ स्तत्र सुखाभाव एव । नतु न नियमः, विषयेन्द्रियसम्बन्धं विनापि दुःखा भावलक्षणस्य सुखस्य विद्यमानत्वात् । मोक्षदृष्णस्य सुखस्य च यद्यपि विषमानता तथापि तस्य सुखरूपत्वे वादिविप्रतिपत्तिसम्भवात् तन्न- धर्मः । तत्र च व्यभिचारं न वदामः । केवलं सुषुप्ते तं वदामः । अतः सुषुप्ते सुवस्या(स्य ? प्य)भावाद् दुःखस्याप्राप्तकालवात् । तत्र भावो न दोषायेति चेन्न । सुषुप्ते सुखस्य भाव । यय विषयेन्द्रियजन्यं सुखं दृष्टं, विषयेन्द्रियाणि च सुषुप्ते न सन्ति । तथापि वैषयिकस्य मुखस्य विषयेन्द्रियजन्यत्वनियमः । अनित्यत्वात् । नित्यःय पुनरात्मसुखस्य तद भावात् सुषुप्तेऽपि सम्भवोऽस्ति । किञ्च सुखमहमस्वाप्समित्युत्थितस्य परामर्शन्यथानुपपत्यपि सुषुप्ते सुखं कल्प्यते । तथाहि -परामर्श नाम प्रत्यभिज्ञानात्मकमनुसन्धानम् । स च तद्वैपवादेव संस्कारमपेक्ष्य प्रवर्तते । संस्कारश्च पूर्वानुभवः । न च पूर्वमिन्द्रियादिजन्यः कचहनुमत्रः सञ्जातः। अत आत्मरूपोऽनुभव एव मुखानुभवः। स च न योधयितुं शक्यो यु क्तिभिः । उक्तप्रकारेणार्थापत्तिप्रमाणसिद्धत्वात् । तथाच सुषुप्ते सुखसिद्धौ दुःखस्यापि प्राप्तकाठत्वात् तदप्यस्त्येव तदा । ननु सुषुप्त आत्मसुखस्यैव सम्भवः । तदात्मनः स्वरूपमेव । न च दुःखमात्मनः स्वरूपम् । अनित्य त्वात् । अतो न तस्य तदा सम्भवः । न च विषयेन्द्रियादिजन्यं सम्म वति सुखवत् । तस्मात् तत्र दुःखस्य प्राप्तकालत्वान्नानुवृत्तिः शक्या कल्पयितुम् । नैतचतुरश्रम् । विषयेन्द्रियजन्यस्य दुःखस्य स्थूलरूपस्य तदा भावेऽपि सूक्ष्मरूपस्य दुःखस्य तदाप्यनुवृत्तिरस्त्येव । अन्यया सुषुप्तिसुखस्य मोक्षरूपत्वप्रसङ्गात् दुःखानुषङ्गभावेन निरतिशयसुखत्वात् । किञ्च मुषु- तिसुखस्यात्मरूपत्वेऽपि दुःखानुअतोऽस्येव । अन्यथा पुष्पॅप्तिरेव मोक्षः स्यात् । न च तथा केशञ्चिदभ्युपगमः । नापि कस्यचित् । तत् कस्य हेतोस्तत् । सुखस्य दुःखानुषङ्गदेव । कथं तत्र दुःश्वस्थितिरिति चेत् स्ख कारणाविति ब्रूमः । स्वकारणं च संस्काररूपं तिष्ठति । अत एव हि। उत्थितः सन् पुनः संसरति । ननु यदि कारणोद्भूतं सुषुप्ते दुःखं पूर्व काळवदस्ति तर्हि सुखमपि तथा स्यात् । किमित्यामस्वरुपता तस्याभ्युप गम्यते । उच्यते । बहठत्वात् सुखस्य । बहलमुखं चात्मरूपमेव तदा १. ‘स’ क. पाठः. 2.
पृष्ठम्:स्कान्दशारीरकः.pdf/२२९
दिखावट