सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ सव्याख्ये स्कान्दशारीरके तत्र यद्युर्वशाखा स्यात् काचिद् रेखा सरस्वती । तयायं पण्डितः शोक्तः स्वकर्मनिरतश्च सः ॥ ८ ॥ तत्रैव इदयतपृष्ठयोर्यपूर्वशाखा ऊर्धशिखा काचिद् रेखा सम्म वेत् तर्हि सा सरस्वतीसंज्ञा । तया सोऽयं पुरुषः पण्डितः स्यात् स्वकर्म निरतश्च खस्य ब्राह्मणादेः कर्मणि नित्याग्निहोत्रादौ सन्ध्योपासनाव च निरतः तत्पर इति ॥ ८ ॥ एवं हृदयतत्पृष्ठयोर्लक्षणमुक्तम् । तद्रतरेखादिलक्षणं फलं च । सम्प्रयुवरगतानां रेखाणां निन्दादिभागानां च लक्षणादि दर्शयति उदरं तद् विदुः सर्वे यज्ञिरूभं स्वत एव तु । तत्पृष्टभागः श्रद्धेयो मृदुत्थक् शुद्धधीर्भवेत् ॥ ९॥ यत् स्वत एव निनं सर्वतस्तदुदरं विदुः । तत्पृष्ठभागश्च सः यो सूद्ववक् । अत एव श्रद्धेयः सुभगः । एवम्भूतं यस्योदरं यस्य च तादृक् पृष्ठभागः स शुद्धधीर्भवेत् । धीशुिद्धिस्तस्य सुतरां भवतीत्यर्थः । ९ ।। रेखात्रयं समुल्लंड्य रेखान्तरमनन्तरम् । दृश्येत यदि तस्य स्थाद् रोगभूयस्त्वमञ्जसा ॥ १० ॥ उदगतानां वलीसंज्ञानां रेखाणां यत् त्रयं लोकसिद्धं तस्मादन्य व्यवधानेन रेखान्तरं यदि दृश्येत तर्जुब्जसा रोगभूयस्त्वं स्यात् । आजस्यं नाम विना कायक्लेशादिकारणं तत्समुद्भवः । भूयस्त्वं च सकलव्याधि संम्पकैः ॥ १० ॥ न्यूनतं चेदलक्ष्मीवान् स्याच्चेदपि विरोधतः । लक्ष्मीर्यदि भवेत् तर्हि मलिनाभुवसङ्गतिः ॥ ११ ॥ एषा योजना-प्रेखाणां न्यूनता चेत् स्यात् सर्वत्रावमतिः । अत्रापि रेखात्रयाद् न्यूनता चेत् स्यात् तर्घळक्ष्मीवान् भवेत् । लक्ष्मीवतः पुरुषा वैन्यो भवेत् । यदि वा विरोधतः स्यादपि विरोधेन सह उक्ष्मीः स्याद् थी । तत्र पंदि स्यात् तर्हि मलिना अध्रुवसङ्गतिश्च । अध्रुवा सङ्गतिः समुद्भवो यस्याः सा तथा । एतदुक्तं भवति -रेखात्रयात् न्यूनरेखता यदि भवति तद्धलक्ष्मीः इटिति समुज्नृम्भते । तस्या विरोधतः विरोधेन रुदमीः स्याचेत् तर्हि मलिना स्यात् अप्रबुद्धगतिश्च । ननु विरोधेन