सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९७ व्यासे स्कान्दशारीरके च गुणैः कोमलत्वमनोहरस्वस्रिग्धस्वास्यैः वृचारेण च । न च स्निग्ध त्वं तैलादौ साधु, अतस्तत्साम्यमत्रापेक्षितव्यमिति युक्तं वक्तुम् । याव न्मात्रं पद्मगतं स्निग्धत्वं तसैवात्रापेक्षितत्वा Iत् । यच्च स्थिरमायतसृजु स्रिग्धत्वं तदेव च तद्धं नान्यत् । एतलक्षणमुत्तमहृदयभागतपृष्ठयोः । मध्यमानां तु गुणैकदेशयोगो हृदयतत्पृष्ठयोः । अधमानां तु हृदय तत्पृष्ठयोरुदीरितलक्षणगन्धोऽपि नास्त्येवेति । तद्गतरेखादिलक्षणमाह तरुता पृथुला वृत्तस्थितः कण्डूतिसंश्रया । तया सर्वोऽपि लोकः स्याद् वशे वश्यस्तु भीतिकृत् ॥ अस्यार्थः- तसिन् हृदये पृथ्वाकारा वृत्तसंस्थितिः कण्डूतिसंश्रया नाम । कण्डूतिसमाश्रयत्वं विशेषणं च न नाममात्रम् । तया रेखया सर्वां लोको वशे भवेत् । यदि कोऽपि वश्यो भवेत् तर्हि स भीतिकृत् स्यात् । वशम वनस्य वश्यत्वस्य च को विशेष इति चेद् उच्यते । स्वत एव यद् वशेभवनमिष्टकारित्वं तद् वशीभवनं विवक्षितम् । यत्र प्रवृत्तिवशाद् व भवनमिष्टकारित्वं च तद् वश्यत्वमिति । तत्र यदि कम्श्चिद् वश्यो भवेत् तर्हि स नित्यं भीतिकृत् स्यात् । कयम् । नन्वयं मम सर्वमेव पुरुषायें साधयितुं समर्थः । तस्मादयं वश्यो नु स्यात् किं वा नेति भयपरवश हदयतया सुखं न कदाचिल्लभेतेति ॥ २ ॥ तष्ठे लक्षणवर्णाः स्युस्तिस्त्रः काश्चन दीपिकाः । ताभिरन्तो भवेन्नूनं निजवस्तुसमाश्रयः ॥ ३ ॥ तस्य इद्यस्य यत् पृष्ठं तत्र याः श्लक्ष्णाः शोभनवर्णास्तिस्रः काश्चन रेखाः ता दीपिका इत्युक्ताः । ताभिः सर्वस्यापि निजवस्तुनः अन्तो विनाशः स्यात् । नात्र संशयकारणमस्ति । नतु सर्वस्यापि निज वस्तुनोऽन्तमेताः कथं सूचयन्ति । देहादेरपि निजवस्तुत्वात् , तस्य च मोक्ष एव विनाशात् । मोक्षञ्चेत् स्यात् तर्हि इष्टसिद्धिरेव पिता स्यात् । नैतद् युक्तम् । निजशब्दस्यात्र सकुचितवृत्तित्वात् । तत् कियद् वस्तु तेनोच्यत इति वक्तव्यम् । उच्यते । तदभिमततरं पुत्रव्यतिरिक्तं प्रिया वस्वादि वस्तु तदेव निजवस्तुशब्देनोच्यते । तथाच न कोऽपि प्रसन्न आपततीति ॥ ३ ॥