१९० सव्याख्ये स्कान्दशारीरके स्याद् , यत् पुरुषाणां तलक्षणस्य फलत्वेनेदितम् । कुतः । विपरीतार्थ सम्भवात् । दुष्टतालक्षणो योऽर्थः तस्य विपरीतो योऽदुष्टतालक्षणोऽर्थस्तस्य सम्भवात् । शुद्धतालक्षणस्यार्थस्य सम्भवादिति यावत् । एतदुक्तं भवति दक्षिणस्तनस्योपरि वर्णत्रयसन्निवेशो यदि भवेत् पुरुषाणां तर्हि महापातक दोषाणां सम्बन्धः स्यात् । तेषु वान्यतमसम्बन्धो नियतः । स्त्रीणां तु नैत देवम् । कथमिति चेद् दक्षस्तनस्योपरि वर्णत्रयसम्बन्धे शुद्धिरेव स्यात् । कीदृशी सेति चेद् , महापातकसम्बन्धव्यावर्तनप्रदर्शिनीति ब्रूमः । तस्मात् तत्र वर्णत्रयसम्बन्धः पुरुषाणां दोषसुचनाय । स्त्रीणां तु न, प्रत्युत तद्वि परीतसुचनायेति ॥ ७१॥ मध्ये पिटकसम्बन्धः पुरुषाणां शुभावहः। स्त्रीणां तु कनकस्पर्धा तद्धस्तु प्रमापकः ॥ ७२॥ अयमर्थः-पुरुषाणामुरोमध्ये यदि कश्चित् पिटकसम्बन्धः सम्भवेत् । तर्हि स शुभावहः । स्त्रीणां तु स नियमेन कनकाय स्पर्धते । कनकोद्भवं प्रतिषशति । कनकशब्देन कुष्याकुप्ययमुच्यते । तदुद्भवं नियमेन प्रति बभ्रति । पुरुषाणां तु यद् यदिष्टं हितं च तत् सर्वं सम्मोदयति । तद्धि सुखम् । तस्मात् पुरुषाणां तत्सम्पात्तिर्युक्ता । स्त्रीणां तु न युक्ता । शुभा शुभफलहेतुत्वादिति । तदधस्तु प्रमापकः । मरणसूचक इत्यर्थः । नन्वेत दपि लक्षणं पुरुषगतं प्रतीयते । न च पुरुषमात्रस्यैतछक्षणम् । अन्यत्रापि दर्शनादिति । सत्यम् । (न) पुरुषमात्रस्यैतलक्षणम् । किन्तु स्त्रीणामपि । तर्हि को विशेष इति वक्तव्यम् । अत्र वदामः। तदधस्तात् स्थितत्वेऽपि पार्श्वयोः शाखायं स्वरूपभूतमपेक्षते । न केवलं तदेव, अपितु विशेषा न्तरमपि । तत् किमिति चेद् ब्रूमः । यदंसद्वयेऽपि पिटकद्वयसम्बन्धित्वं तदेवेति । यदि वा प्रमापक इत्यस्यार्थान्तरं - प्रमापको ज्ञापक इति । तत्राध्याहारश्च कर्तव्यः । स च बलात् सिध्यति सर्वस्यापीति । न च सर्व ज्ञतात्र विवक्षिता । अपितु प्रायिकी सर्वज्ञता । तेन यत्र यत्र बुद्धिप्रवेशाय यत्यते तत्र तत्र प्रसृतबुद्धितया शूटिति तद्विषं(यं १)यावबोधः स्फुटतरं गृ म्भते प्रतिमादिलक्षणैः । न च इटियुपया झटिति विनाशः । प्रमोष १. ‘म्पद्यते । क पाठः
पृष्ठम्:स्कान्दशारीरकः.pdf/२१८
दिखावट