षष्ठोऽध्यायः । १८१ तिक्तेन तत्मुखावगतताया अनुमेयत्वात् । किञ्च सुखमहमस्वाप्सर्’ इति परामर्शः सुप्तोत्थितस्य धयते । तेन सुतौ सुखानुभवोऽस्तीति । गम्यते न च तत्र कर्मभूतानां विषयाणां सुखानुभवहेतुभूतानां सम्भवोऽस्ति । अतः सुखमेकमेवानुभूयते । नच तत्र करणान्तरमपि मनसोऽतिरिक्तमस्ति । मनसश्चेन्द्रियसहायसम्पदैव सह स्वातिरिक्तानुपखाधनत्वम् । किञ्च तदपि भावेन्द्रियैः सदैव स्वप्रकृतौ लीनमेव । अतो मनसोऽपि तदाभावः। अतः स्वप्रकाशानुभावगम्यतैव सुषुप्तिसुखस्य । तथा च न कर्मतेति चेत् मास्तु। तथापि ‘मामहं जानामी' ति जाग्रप्रत्ययवदस्तु प्रत्ययः । विशेषस्वस्ति । तस्य सविकल्पकत्वात् शब्दसंलिष्टता । अस्य तु सुषुप्तिसुखानुभवस्य न तथाविधत्वम् । करणजन्यत्वाभावात् । करणजन्यं विज्ञानं प्रत्यक्षादिशब्द वाच्यं भवति । इदं तु न करणजन्यम् । तदानीं करणाभावात् । किन्तु स्वस्वरूपमेव । अत आनन्दस्वरूपता सिद्धा । तां च सूचयतीति । अत्र फलत्रयं समुचयेन योज्यं कुहचित् । ये तावद् विषयेष्वनास्थाबन्धाः, देवतादिषु च विशेषतः सक्ताः, उपभोग्यवस्तुनि मधुराजादौ किञ्चिदनु रक्तमनसस्ते तैरेतैरुक्तैः फलैः सङ्गता भविष्यन्तीति तत्र समुच्चयेन फलानां सुचनम् । इतरत्र तु विकल्पेन । कथमिति चेत् कचिद् राजादौ स्वजातिं सूचयन्ति । येषां पुनः प्रजाः श्रद्धयापेक्षकसन्निधिसम्मुखीकरणमागमनं चानुवर्तन्ते तेषामुक्तलक्षणा रेखा बहुप्रजत्वं सूचयन्तीति भावः ॥ ५१ ॥ एवं कण्ठगतानां रेखादीनां लक्षणादि दर्शयित्व कण्ठाधेयभूतशिरोगतानां लक्षणानि वर्धयति । तत्र तावत् केशानामुच्यते – केशास्तु परुषा येषां ते खरा इति कीर्तितः। येषां तावत् परुषाः केशास्ते खरा नाम । येषां च खराः केशास्ते खराः रामानः कूरमनख इति कीर्तिताः । अतस्तथा विज्ञेया इति । येषां वनं मृदुस्पर्धा मृदवस्ते स्मृता बुधैः ॥ ५२॥ येषां पुनर्वक्रः वक्राकाराः मृदुस्पर्शाः सर्घने सति मृदवः केशाः ते बुधैर्देवगैQदवः गूढात्मानः स्मृताः अवगताः । अतस्तथावगन्तव्या । साम्प्रतिकैरित्यर्थः ॥ ५२ ॥
पृष्ठम्:स्कान्दशारीरकः.pdf/२०९
दिखावट