सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ सव्याख्ये स्कान्दशारीरके कर्तुं शक्यमेव । किमर्थं पृथक् शब्दादेरिति ग्रहणम् । उच्यते । सत्वं, गुणग्रहणेनैव सर्वेषां गुणानां ग्रहणं शक्यमेव'। तथापि विजातीयत्वं शौर्यादीनां शब्दादीनां च । अतः शब्दादेः पृथग् ग्रहणम् । तर्हि किमर्च शौर्यादीनामिति नोक्तम् । अन्यत्र शरीरप्रकरणे गुणानामित्युक्ते तेषामेव बुद्धिपदारोहणमिति ब्रूमः । यदि वा, गुणानामिति सामान्येन सर्वेषामुपा दानम् । विशेषोपादानं पुनः शब्दगन्धादेरिति । तदुपलक्षणं शौर्यादेरपि इति न दोर्चः । के ते शौर्यादयः । किञ्च तेषां स्वरूपमिति चेद् ब्रूमः । वीयंशयप्रतापभाग्यौज्ज्वल्यकान्तिकमनीयतालक्षणाः । वीर्य नामाप्रतिहता शक्तिः । शौर्यं नाम समसमत्ववितृम्भणी नवनवोन्मेषा तद्विशेषता काचः दपरा शक्तिः । प्रतापश्च श्रवण एव भयजनकत्वम् । भाग्यं च सद्यः स्मरण एव समीहितसिद्धिपात्रता। भौज्ज्वल्यं दर्शनसमय एवाद्भुतविषयता योज्यता । कान्तिः कञ्चित् काठं गत्वा पुनरद्भुतधीविषयता । कमनी यता मनोहरता इत्येवं विभागः। के ते शब्दादय इति चेत् शब्दादय श्चतुर्विंशतिगुणाः । तेषां सर्वेषां गुणानां पात्रं भवेत् । ज्ञातेत्युक्त्यापि तसाधतैवोक्ता । ज्ञात्वा सम्पादनं विना कार्यान्तराभावात् । न च ज्ञानमेव प्रयोजनमिति वक्तुं युक्तम्, अपुरुषार्थत्वाद् ज्ञानस्य । ननु ज्ञानस्यापि पुरुषार्थसाधनत्वात् पुरुषार्थत्वम् । सत्यम् । अत एव गुणज्ञानस्य गुण पात्रतापर्यवसानेन फलपर्यन्तता समभिहिता इति न दोषः । ननु वीर्य शौर्यादिगुणनां पात्रत्वेनास्तु फलपर्यन्तता । तज्ज्ञानस्य शब्दादिगुणानां ज्ञानेन न किमपि स्यात् । नैतत् सारस् । शब्दादीनां ज्ञानेन मूततन्मा घाणां ज्ञातत्वेन द्रव्याणामपि नवानां ज्ञातत्वादात्मनोऽपि नवद्रव्यान्तर्भावा दात्मातिरिक्तसर्वपदार्थानां ज्ञातत्वेनामनश्च ज्ञातवेन ज्ञानस्य च प्रयन- उग्यस्य च सिद्धत्वेन परमानन्दवाप्यादि फलं सुखसिद्धमिति । यदि वा शब्दादीनां गुणानां ग्रहणमुपच्क्षणं द्रव्यादिपदार्थषट्कपरिज्ञानस्य । कथ मिति जे शब्दादयो गुणा द्रव्याण्याश्रयन्तः क्रमेण स्वाश्रयभूतानि द्रव्याणि बापयन्तः द्रव्यातिरिक्तं पदार्थपञ्चकमपि द्रव्यस्थाः द्रव्यलक्षणाद्वारा तत्स बन्धात् तदितरपदार्थजातमपि लक्षयन्ति । अतः पदार्थषट्कपरिज्ञानने सर्वधरप्रखादादात्यन्तिकी दुःखनिवृत्तिः पुरुषार्थभूता सम्भवतीति