सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ' षष्ठोऽध्यायः । १७५ था वा तत्रैव वृसस्था बहुशाखासमन्विता प्रवृत्ता नाम सा' प्रोक्ता तया कुक्षिरुगिष्यते ॥ ४० ॥ या तत्रैव कण्ठे बहुशाखासमन्विता बह्वभिः शाखाभिपेता, वृत्तस्था वर्तुलसंस्थानविशेषस्थिता, सा प्रवृत्त नाम । तया कुधिरुक् फलं भवति इतीष्यते । पूर्वोक्तायाः सन्निधौ वर्तुलाकारा वीभिः शाखाभिरूप लक्षिता उपचूंहिता च सा यदि स्यात्, तर्हि कुक्षिरोगं सूचयति । कुक्षिः रोगश्च बहुविधः । स नात्र विशेषित इति ॥ ४० ॥ या तत्र बहुधणी बहुशाखासमन्विता । कल्माषाख्या तु विज्ञेया सा गुरुस्वं प्रयच्छति ॥ ४१॥ अयमर्थः - या तत्रैव बहुवर्णाङ्गी घइवो वर्ण आकारविशेषा यस्याङ्गस्य सह वर्तत इति तथा । बहुशाखासमन्विता इति व्याख्यातम् । कल्माषाख्या सा ज्ञेया । फलमाह- सा गुरुत्वं प्रयच्छतीति । गुरुत्वं गम्भीरत्वं पीनत्वं च । न वक्रत्वमभिमतम् ॥ ४१ ॥ किया. या तन्न कण्ठदेशे सा पीताकारा प्रवर्तते । उमेति नाम तस्यास्तु फलं पर्याप्तिरिष्यते ॥ ४२ ॥ या तत्र कण्ठदेशे पीताकारा पीतवर्णा रेखा प्रवर्तते, सा उमेति नाम । तस्याः फलं पर्याप्तिः । पर्याप्तिर्नाम तत्तदभीष्टफलसंसिद्धिः । तत्रापि विशेषोऽस्ति, फलपरमकाष्ठाविशेषसमुद्रता ये भावविशेषाः प्रभवन्ति, तर सर्वसम्पत्तिरिति ॥४२ ॥ या कृष्णवर्णा संश्लिष्टा रेखाद्वन्द्वेन सा धृतिः। यमादि सूचयेन् सा तु प्रतिष्ठां चापि तस्य वै ।। ४३ ॥ या कृष्णवर्णं तत्र कण्ठदेशे रेखा रेखाद्वलेन संछिद्य च, सा यमादि योगाङ्ग सुचयेत् प्रतिष्ठां च । किं तद् यमादीति चेद्, ब्रूमः । यमः नियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः । (समाधि)श्चित्तनिरोधः। कल्याणचिन्ता चक्षुरादीन्द्रियनिमीलनम् आत्मानं प्रति चित्तखास्थ्यमिले तत् । प्रतिष्ठा इहलोकफलसिद्धिः । सा च सुखपर्यन्ता इतेि ॥ ४३॥