१७० सव्याख्ये स्कान्दक्षारीरके तत्रैव मतिरेषा चेत् स्वर्णाभा सच्छिलावया । तया सर्वो हि लोकोऽस्य प्रियं कुर्यान्न संशयः ॥ २९ ॥ या पुनस्तत्रैव जिह्वागलकोष्कपाले स्वर्णाभा, पीतवर्णा इति यावत् । सच्छिखाद्या सत् स्थिरं शिखाद्वयं यस्यास्तादृशी रेखा मति रेखा । तया अस्य पुरुषस्य सर्वो लोकः प्रियं कुर्यातें नात्र संशयः । एत दुक्तं भवति – यस्य खलु जिहपरिगोलकध्र्वकपाले मतिरेखा सखुलसति, तस्य सर्वो लोकः प्रियं कुर्यात् । केनेति चेद् उच्यते । मतिर्नाम मनु उच्यते, तज्ज्ञापिका रेख। तया च सर्वस्य लोकस्य प्रियकरणे मनसो हेतुत्वं निधीयते । मनसश्च न साक्षादुक्त.फलहेतुत्वं, किन्तु खकार्योत्पादनद्वारे पैव । स्वकार्यं च वाक्प्रवृत्तिः । सा च न सामान्याकारा, किन्तु विशे- पाकारा । विशेषोऽपि माधुर्यसत्यवगाम्भीयप्रतिहतत्वदयाफलकत्वविशेष धमपहुँदितवम् । एवम्भूतेन विशेषाकारेणोपलक्षिता। वाणी सर्व लोकं मति रेखावतः पुरुषस्य प्रियङ्करं कुर्याद् इति ॥ २९ ॥ या वा तत्रैव नम्राख्या रेखात्रयसुसङ्गता । तया सर्वे सुखं लब्ध्वा तस्मादेव समेधते ।। ३० ॥ अयमर्थः - या तत्रैव जिह्वोपरिगोलकभागे रेखात्रयसुसङ्गता रे - खत्रयेण एकस्मिन् भागे रेखद्येन दक्षिणे, अपरत्र वामे एकेन सुसङ्गता सुश्लिष्ट रेखा सा नमाख्या । र्या सर्वो लोकस्तस्मादेव पुरुषात् सुखं लब्ध्वा समेधते सम्यग् वर्धते । यैषां खङ नमाख्या रेख तया ते पुरुषा स्तेभ्योऽन्ये तेभ्य एव सुखं लब्ध्वा वर्धन्ते । कथमिति चेद् धूमः । एषा रेखा सुखं सूचयति । सुखे च जाते मनसि कस्या अपि व्यथाया अभा- धात् यथायाम शोषहेतुत्वात् तदभावे च वर्धनकारणसमुज्जूम्भणा बग्नरेखया सम्पन्नः सर्वे लोकं सुखं लम्भयित्वा वर्धयन्तीति ॥ ३० ॥ यत् तत्र पिटकद्वन्द्वं संज्ञासंज्ञितमानतम् । तया सर्वोऽपि लोकः स्याद् दुःखी रे खभिधा तु सा॥ ३१॥ १ ‘सर्वः नि,' १२. ‘त तद्वतो लोकः ना' कः ख. ड, पाठः ३. ‘कातले' ख. ५. पर. ५, 'ध', , ‘य ख' क. 'यैषा खछ' घ. पाठ, . नै' ख., 'द' क. पाठः
पृष्ठम्:स्कान्दशारीरकः.pdf/१९८
दिखावट