१६ सव्याख्ये स्कान्दशारीरके ता रेखः स सिताख्यो भागश्च पुरुषाणां स्त्रीणां च यथाक्रमं रागितां स्चयन्ति । यदि त्रीणां रेखाः प्रकाशाख्याश्च न केवलं, समुन्नतो भागः सिताख्यःतर्हि रागितां सूचयन्येव । यदि च पुरुषाणां समुन्नतो भागः सिताख्यश्च न केवलं, प्रकाशाख्या रेखा एव, तर्हि सूचयन्त्येव रागिता मिति लक्षणद्वयसम्बन्धे फलावधारणाय एवकार इति ॥ ४ ॥ तत्रैव चोध्र्वरेखायाः सम्भवो यदि नान्यतः। वचनेनैव जीवन्ति ब्रामणाश्चेत् पृथक् पृथक् ॥ ५॥ जिह्वयामेव चेदूर्वरेखायाः सम्भवः सत्ता, नान्यतः पाणिपादत लयोर्ललाटे च, तर्हि वचनेनैव ते जीवन्ति नायैधृतिसाधनैः किञ्चन कृ त्यमस्ति, यदि ते शाखणाः । यदि ते पृथग् ब्राह्मण्यात्, तर्हि फळमपि पृथगन्यदेव ॥५॥ किं तदिति चेद् उच्यते पालनं क्रयवृत्तिर्वा बिजसेवनमित्यदः। यदात्मनः स्वतः सिद्धं तदेव फलमिष्यते ॥ ६ ॥ सुगमम् । वाशब्दश्चयैः ॥ ६ ॥ सर्वत्रापि वैदूर्वरेखा तर्हि किं फलमिति चेदत्र ब्रूम इत्याह - यद्यन्मनसन्निहितमिष्टं वा बुद्धिगोचरः । तत् सर्वं सततं सिध्येदिति शङ्करशासनम् ॥ ७ ॥ यथुर्वरेखा सर्वत्र, स्यादित्यध्याहारः, तर्हि ततः पुरुषस्य स्त्रिया वा यद्यन्मनःसविहितं बुध्युपारूढं, यचेतन्मम सम्पद्यते तर्हि सुखी भवि व्यामीति, तत् सततं सिध्येत् । यखेटं न बुध्युपारूढंतदपि सततं सिध्येतुं। यच धीगोचरः षियः गोचरः विषयः तदपि सततं सिध्येत् । एतदुक्तं भवति -त्रिविधोऽस्ति विषयः प्रेख्यातः । कश्चिन्नित्यध्यातत्वाद् वृद्धि सन्निहितो भवति, सर्वदा स कालापेक्षां विना सिध्येत् । कश्चिदिष्टः सोऽपि तयैव सिध्येतुं कदाचिदप्यज्ञातः । कश्चित् धीगोचरः ज्ञातमात्रः सोऽपि तथैव सिध्येत् । यदि सिद्धे सति पुरुषाणां स्त्रीणां वा इष्टाप्तिमनिष्ठपरि हरं वा कुर्यात् , साधनं चेत् , साध्यं चेत् , सुखं दुःखनिवृत्तिर्वा स्या दिति । नात्र वर्षनियमोऽपीत्यवगन्तव्यर ॥ ७ ॥ २. ‘व । एत' द. पाठः२. 'प्रारूपः क' ख. ङ. पाठः . ३. ‘ति का', ४ .
पृष्ठम्:स्कान्दशारीरकः.pdf/१८८
दिखावट