सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः ।। १५१ या चक्षुरुन्मुखी विद्यां कपालस्था प्रयच्छति । ललिता थािदिता साक्षाच्छूियमायुश्च वर्धयेत् ॥ २१ ॥ या पुनः कपोलस्या रेखा, सा विद्यां प्रयच्छति । कीदृशीति । चक्षुरुन्मुखी चक्षुः प्रति शिर उद्धृत्य गच्छन्तीव भासमाना । नाम्ना च ललितेति विदिता विज्ञाता । कि, श्रियमायुश्च वर्धयेत् इयमायुधश्रियो Qद्धिमपि सूचयति , न केवलं विद्यां प्रयच्छति । एतदुक्तं भवति- एखाद्या रेखा पूर्वमविद्यमानां विद्यां प्रयच्छति भाविनीं सूचयति, आयुः श्रियं च पूर्वसद्धे अपि वर्धयति, तयोर्भविवर्धनं सूचयतीति फलनामलक्षणकथनं सिद्धम् ॥ ५१ क.चित् पुनर्नासापुटादारभ्य नयनार ' च्छदे। तां संज्ञफलकथनपूर्वकं लक्षयति या पुनर्नासिकारन्ध्रादारभ्य नेत्रयोः । अन्तं गच्छति कल्य तां विदुस्तत्फलामपि ॥ ५२ ॥ या पुनर्नासिकारन्ध्रद्वारादारभ्य नेत्रयोरन्यतरस्यान्तं गच्छति, नासिकारंन्भ्रद्वारशब्देन नासिकाँरन्ध्रसन्निधिरुच्यते, तस्मादेकस्मादारभ्यैकं नयनान्तमुभयस्मादुभयं वा गच्छति, तां कल्याणीं विदुः । तत्फलां च तत् कल्याणं फटं यस्याः सा तथोक्ता, तादृशीं च विदुः। अयं भावः यदि नासिकापुटयोरेकस्मादारम्यैकं नयनान्तं काचिद् रेखा गच्छति, उभयस्मादुभयं वा रेखाइ, तर्हि तयो रेखयोस्तस्याश्च रेखायाः कल्या- णीति नाम । ततः पुरुषस्य स्त्रिया वा कल्यणमेव च फलमिति ॥५२॥ या पुनस्तस्मादेष नासाबूद्यादारभ्य कर्णनूलद्रवै गच्छति, तत्फी छक्षणं च कुथ यति संज्ञां च - या नसालमारभ्य कर्णौ तु गच्छति । कर्णिकेति प्रसिद्धा सा श्रियमायुश्च सूचयेत् ॥१३ ॥ या पुनर्गीसामूलं कर्णं च व्याप्यांविच्छेदेन तिष्ठति खा कर्णिकेति शत्रप्रसिद्धा । सा पूर्व श्रियं स्चयेत् पश्चदायुश्च । इदं तात्पर्य कर्णिकाख्या रेखा आयुःपूर्वभागभाविनीं श्रियं सूचयेत् , उत्तरकाळभावि १. ६. २. भति । आयुः' ख. पाठः १. 'कास ’ झ पाठः . ४. ‘द्वारदाद ' ऊ. प. .