सामग्री पर जाएँ

पृष्ठम्:स्कान्दशारीरकः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः । १२७ यदि तत्सन्निधौ उपप्रवर्तनासन्निधौ यापि कापि रेखा प्रवर्तेत, तर्हि सा अस्फुटाकृतिरस्रष्टाकारा भवन्ती अस्फुटेति नाम लभते । फल च वचसि माधुर्यं, वाघ्ज्घधुर्यमिति यावत् । ईयेत्) करोति, आसूत्रय तीत्यर्थः ॥ ७ ॥ तत्र कश्चिन्निरूनो भागो विद्यते, तल्लक्षणमाह नाम च कथयति – निम्नस्तु भागो धीराख्यो यदि तत्र प्रकल्पयेत् ।। धैर्यमेव प्रवक्तारं कुर्यादपि नरं विभुम् ॥ ८ ॥ एषा योजना–यदि सव्येतुरङ्भागोपरि निम्नो भागो लभ्येत, तर्हि तस्य धीर इति नाम, धैर्याख्यं गुणं तत्र सूचयति । किञ्च तं स्वाश्रय भूतं नरं प्रवक्तारं सूचयति । प्रवक्तृशब्देन व्याख्यातोच्यते शास्त्रादीनाम् । किचसर्वकार्यसमर्थं च तं सूचयति । अहो महत्येषेति भावः ॥ ८ ॥ तत्रोपरि रोमसन्धावपि कश्चन निम्न भागो विद्यते कस्यचित् । तल्लक्षणमाह निम्नश्च भागो यस्यास्ति कर्मठो नाम शस्यते। तेन धर्मेषु निरतः प्रकृष्टश्च शुणैर्मतः ॥९॥ अयमर्थः--रोमसन्धौ फालशिरोरोम्णां सन्धौ यदि कश्चिन्निम्नो भागो भवेत्, तर्हि स प्रशस्यते पुरुषः । अपिच यस्य स कर्मठो नाम निम्नभागोऽस्त फालदेशे, स धर्मेषु निरतः स्यात् । गुणैश्च प्रकृष्टो मतः उत्कृष्टः प्रसिद्धः स्यात् । के ते गुणाः के च ते धर्मः इति चेदुच्यते । तपः क्षान्तिस्तितिक्षा शमो दम उपरतिः सर्वकृपा श्रद्धा चेति (गुणाः) । धर्मास्तु देवताराधनादयः काम्या दृष्टफलाः, अदृष्टफळाश्च नित्याग्निहो श्रादयः ॥ ९ ॥ अत्रैव फडे लक्षणान्तरं कथयति लक्ष्यान्तरप्रकाशमाय - दीर्घकारो निम्नभागः कर्मठाख्यां लभेत यः । । सोऽपि पूर्वोक्तमादेश्यात् फलान्तरमुदीरयेत् ॥ १०॥ अयमाशयः-– - कर्मठाख्यस्य पूर्वोक्तस्याधस्ताद् दीर्घकारो निम्न भागः, सोऽपि पूर्वोक्तं फलमीरयेत् , सुचयेदिति यावत् । यः कर्मठाख्यां लभते, असावपि कर्मठनामेत्यर्थः । आदेश्यात् फलान्तरं च । आदेयं १. 'णतम्त्रं सू', २ ‘न्तः प्र' घ. पाठः